पृष्ठम्:तिलकमञ्जरी.pdf/२९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२८२काव्यमाला।

क्षणयुगे वारंवारमनिमेषतारकं चक्षुरवनिभृत्कुमारस्य तस्य त्वरावता वित्तेन चिन्तयन्ती स्थित्युपायान्बलवदनुरागप्रेरिताप्युदासीनेव तां वसन्तसेनां पुनरवोचम् --- 'सखि निषिद्धोऽपि जाल्मः प्रस्थितोऽयं जालिकः । कृत्वा च पुरतः प्रार्थनामकृतार्थ एष व्रजति राजपुत्रः ।तन्निवर्तयाभिधाय यत्किंचिदतौ(?) स्थिरीकुरु तावद्यावदेति प्रवेशमार्गोपदेष्टा कोऽप्यमुष्माद्देवतायतनात् । अन्यथा महन्मालिन्यमायातमस्माकम्' इत्युक्ता च सा पुनस्तमारमत वक्तुम्-'अहो कर्णधार,विगतकर्ण इव गाढमखस्थमनसः कथयतोऽपि स व्यथां निजावस्थामस्य पृथ्वीपालसूनोरनाकर्ण्य वाचं प्रचलितस्तूर्णमेव केनापि हेतुना त्वम् । एष च पयोराशिरत्र क्षणे विजृम्भमाणसमधिकाम्भःक्षोभ इव दृश्यते । यतो विततदुर्वातताडिताभिस्तरङ्गततिभिरुत्सग्निता गन्तुमनिच्छतीव दोलायते तवेयं यानपात्री । तद्यदि करोषि मे वचनम् ,आलोचयसि नीतिमार्गम् , इच्छसि कुशलमस्यात्मनायकस्य, तन्निवर्तय तावदेनम् । प्रसादय च विस्तरेण स्तावकैर्वचोभिः । आचक्ष्व च समस्तमास्ते मनसि यद्विवक्षितम् । इयं हि तव गोत्रदेवता सर्वकालमेवोपासनीया, विशेषेणाद्य विषमजलदुर्गपतितस्य । किं च प्रतीक्षस्व तावत्प्रसीदन्तमुदधिम् । अतिवाहय वहन्तमेतमशुभ मुहूर्तम् । आसादयोपजायमानं मनोज्ञं शकुनम् । अथ निशमिताखिलत्वन्मनोदुःखसंजातकरुणया कृतानुग्रहोऽनया 'गच्छ निर्विघ्नम्' इत्यभिहितस्तया शीघ्रमेव तां नावं न्यवर्तयत् ।

 अभाषत च सप्रश्रयो वचनम् –'आर्ये, कालोचितं कृत्यमुपादिशन्त्या त्वया किमप्यनुगृहीतोऽहम् । को हि भवन्तीं विहायेदृशं


द्गतौ स्यात्