पृष्ठम्:तिलकमञ्जरी.pdf/२९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी २८१

स्त्वामनवलोकयन्नाकुलो भविष्यत्यशेषः परिजनः । विलवत्वमुपयास्यन्ति सेवकाः । तदद्यापि यावत्प्रयाणखेदनिःसहो राजकुलममात्यलोको न याति, यावच्च वृत्तान्तमुपलभ्य भवतः सर्वतो जातसंक्षोभा न प्रधावन्ति भूमिपतयः, तावदतर्किता एव गत्वा समाश्रयामः शिबिरम्' इत्यभिहितः स तेन मत्संनिधिपरित्यागकातरो न किंचिदस्थ प्रत्युत्तरमदात् । पुनः पुनरनुबध्यमानश्च मधुरमधुरे भ्रुवोः कपोलयोरलकेषु च कृतासङ्गमाकृष्य कृच्छादिव मुखाचक्षुस्तदभिमुखोऽभवत् ।  ।अभाषत च मन्दम्---'सखे तारक, प्रतीक्षख तावत्क्षणमेकम् ।अत्र क्षणे बलवदस्वस्थं मे शरीरम् , प्रवृत्ता शिरसि वेदना, दृढारम्भा जृम्भा, विजृम्भते निकामं रणरणकदायी केनापि कारणेन दारुणावेगो दाहज्वरः, यतोऽस्य विनोदनायास्मिन्नेव प्रचुरकर्पूरचन्दनप्रायपादपच्छायशीतले प्रदेशे मुहूर्तमेकमवस्थातुमभिलपति मे हृदयम् , तथापि त्वं प्रमाणम् , इत्यभिदधाने तस्मिन्महामागे स भूयोऽप्यभाषत-'कुमार, यद्यहं प्रमाणं तन्न युज्यते निमेषमात्रमपीह स्थातुम् । अतिबहुदोषमत्र प्रदेशे चिरावस्थानम् । एष न व्याधिरनावेदितोऽपि विदितो मया। निदानं चास्य विज्ञातम् ।अत एव प्रतीकारहेतोः स्थानान्तरमितस्त्वां नेतुमिच्छामि । योऽपि कर्पूरचन्दनच्छायशिशिरः प्रशमहेतुस्त्वया परिकल्पितः प्रदेशः,सोऽप्यस्य तव शरीरसंतापस्य सन्निपातज्वरसेव सुतरां संतर्पकः प्रकारान्तरेण शमयितव्यः । तदलमावेगेन । यथा सामर्थ्यमवसरेऽसयनसहमेव चिन्तयिष्यामि' इत्यभिवाय तनपानतवदनमप्रकटितस्मितः खानादचालयत् ।  प्रस्थिते ते च तस्मिन्नरतिपरिगृहीताहमनवरतपरिवर्तितकन्धरस्य विसृजतः सदैन्यमिव सदुःखमिव समानमिव सात्मसमर्पणमिव मदी-