पृष्ठम्:तिलकमञ्जरी.pdf/२९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२८० काव्यमाला।

अभाषत च सा--'भद्र, किं कथयामि । अभाजनमयं जनो भवत्समीहितावेदनसुखस्य । न हि सा भाग्यसंपन्मम, ययास्य भवत्स्वामिनो मनोमिमतमर्थं साधयामि । अथैव रात्रावियमिहानीता नायिका नः केनापि । असावपि दिगन्तविख्यातयशसां महामण्डलपतीनामात्मजः।सर्वोऽपि वैदेशिकः कन्याजनस्त्रिभुवनातिशायिसौन्दर्यसंपदे ।

उदप्यदृष्टपूर्व रूपमिव नृपकुमारस्यास्य दिव्यं देवतायतनमस्याः । कथमेवदीयान्विशेषानवगच्छति । कथं चास्य तव नायकस्य प्रवेशे नितान्तमपि सस्पृहामार्गमुपदिशति । किं च संप्रति गता तावदन्यचिन्ता ।आत्मापि चिन्त्यो वर्ततेऽस्याः । किमत्रैव जलधौ कालमतिवाहयिष्यामि । किमतोऽपि दूरं यास्यामि । किमन्यदीयावासविहितस्थितिरनभिप्रेतमात्मनो दशान्तरमनुभविष्यामि । किं वा भूय एव स्वभवनं नेतव्या । को हि जानाति सम्यग्देवगतिम्' इत्युदीर्य तूष्णीमास्थितायां तत्र कृतविलक्षमितो नाविकः स तमवादीत्—'कुमार, स्थितं तावद्देवतादर्शनम् । असौ तु दूराकृष्टधन्वना कुसुमकार्मुकेण मद्दर्शनैकशरणः कृतः । तेन विच्छिन्नवाल्छितार्थविरसेनापि वचसा श्रुतेन मनागपि न खेदमवहत्, प्रत्युत तदेव बहमन्यत' । स्थित्वा च क्षणं स नाविक:पुनरवोचत्-'युवराज, दृष्टेयमदृष्टपूर्वा मानुषैरमरसमनिवासिनामपि विसयकारिणी भूमिः, अवलोकितानि कल्पलतावनविद्रुमपादपानि वानानि, वीक्षिता दर्शनेनैव सर्वहृदयं संज्वरगुहश्चन्द्रोदयक्षरितचन्द्रकान्तकन्दरानिर्झरसहसकल्पिताकालदुर्दिना महागिरेरस्य सानवो निवृत्तकौतुकैरपि । किमयापि विलम्ब्यते । प्रसादयामः प्रतीपम् । पृष्ठत-


१. 'सर्वहृदयसंज्वरद्रुहुः' इति पाठे 'सर्वेषां हृदये यो ज्वरस्तं दुहन्ति जिघांसन्ति नाशयन्ति' इत्यर्थो भवेत्