पृष्ठम्:तिलकमञ्जरी.pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमारी।२७५

प्रस्थिते च तत्र त्रिकूटायचलाभिमुखमौत्सुक्यतरलेक्षणतत्क्षणमेव पुरुषः स तासां क्षितिपकन्यानामाधिपत्ये सगौरवं मामतिष्ठिपत्, प्रवर्तयामास च पुनः पुनः समासन्नरम्योद्देशदर्शनाय । ततोऽहमुत्साहिता तस्य वचनैरुत्थाय ताभिर्गृहीतवेत्रच्छत्रचामराभिरनुगम्यमाना सहचरीभिः प्रथममेव प्रविश्य परितः प्रेषिता निमेषदृष्टिदृष्टमिव पुरा,सेवितमिव भवान्तरे, कारितमिवात्मना, परिमलितमिव सर्वकालमवलोक्य प्रीतहृदया प्रासादमयतो गर्भगृहगर्भे प्रतिष्ठितम् , अदभ्रदेहप्रभारसरदूरापसारितज्वलदुदगुदीपिकालोकम् ,इभमृगेन्द्रचक्राध्यासिते सुराचल इव मरीचिमालिनम् , अमलरोचिषि हिरण्मये महति सिंहासने समासीनम्, अचिराभिषेकनिष्पङ्कपरिकर्माचरणम्, आमोदिना हरिचन्दनेनारागेणानुलिप्तम्,प्रतिकुसुमोपविष्टनिष्पन्दषट्पदनिपीयमानमकरन्दाभिराजानुलम्बिनीभिरभिनवसुरद्रुमसम्भिरुपरचितसर्वावयवपूजम् , उत्क्षिप्ससान्द्रकालागुरुक्षोदधूपम् , अतिमहाप्रमाणवज्रमणिशिलामयम्,अतिशयप्रशान्तदर्शनम् , अपश्चिमस्य भगवतो महावीरजिनवरस्य जन्ममरणार्णवावर्तवर्तिजन्तुनिकुरम्बैकावलम्बनं बिम्बमद्राक्षम् ।दृष्ट्वा च तत्पितरमिव चिरात्प्रवासागतं खामिनमिव सर्वदा कृतोपकारमारूढगाढोत्कण्ठा सरन्तीव पूर्वसंसृष्टस्य कस्यचिदभीष्टजनस्य निनिमित्तोदीर्णमैन्युवेगकम्पितकुचयुगा कथमपि निरुन्धती कण्ठदेशागतमाक्रन्दशब्दमुप (स) त्य सप्रश्रयमप्रतः परमया भक्त्या प्रसारित: सकलगात्रयष्टिस्ताडयन्ती कुट्टिमे मुहुर्मुहुर्ललाटमाबद्धकरसंपुटा प्राणंशि(सि)षम् । उत्थाय च पुरो निविष्टाविष्टपत्रपगुरोरास्यचन्द्रमसि

निहितनिखरमदृष्टिरनवरतनिर्यद्वाष्पमनिवार्योत्कण्ठमशक्यमावेदयितुं स्वसंवे-


1.अनल्प. २. दैन्यम् . ३ प्रणामं कृतवती. ४. "निविष्टापत्रप' इति स्यात्,