पृष्ठम्:तिलकमञ्जरी.pdf/२८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२७२ काव्यमाला।

जानाति तत्त्वतो राजपुत्री तस्याः पितरम्, अन्यथा न कश्चिदिति कथयेत्' । 'वत्से, दृष्टस्त्वया स तापसः' । 'तात, न क्वचिदृष्टः । जनप्रवादादवगतः' । वत्से, त्वज्जननी किमाचष्टे । 'तात, न किंचिदाचष्टे । प्राक्तनं निजवृत्तान्तं केवलं पृष्टा कथाप्रसङ्गेषु सखीभिरधोमुखी मुक्तदीर्घनिःश्वासा निःशब्दमविरताश्रुबिन्दुदर्शितदुर्दिना रोदिति । 'आर्य, किमप्रतिपादने रोदने च तस्याः कारणम्' । देव, सर्वलोकोत्तरनिजवंशव्यसनप्रकाशनलज्जा बन्धुजनानुस्मरणदुःखं च । 'वत्से, यदि न किंचित्कथयति,ततः विद्याधरलोके नाट्यप्रयोगास्तयाधिगता इति त्वया विज्ञातम्' ।'तात, विज्ञापयामि । अतः समयादतिक्रान्तसंवत्सरे त्रिकालदर्शी मुनिर्महायशो नाम महातपोभिरनेकैः परिवृत्तो महर्षिभिः काञ्चयामुपाययौ।बालोद्यानविनिविष्टं च द्रष्टुमामिष्ट इव कौतुकेन सर्वोऽपि नगरनिवासी निर्गतो जनः । जनन्यपि मे प्रयुक्तान्तवेशिकविज्ञापितेन कृताभ्यनुज्ञा तातेन परिमितपरिच्छदा मामादाय गता तदर्शनाय । दृष्टश्च स महात्मा। पृष्टश्च विधिप्रयुक्तपूजया प्रस्तावमुपलभ्य 'भगवन् , अखिलभुवनल्यातविद्याधरवंशसंभवाहमपुण्यभागिनी शिशुरेव नगरविप्लवे विप्रयुक्ता बन्धुभिः। भूयांश्च कालो वर्तते ममात्र तिष्ठन्त्या । न केनापि निष्करुणेनान्विष्टामदृष्टदोषा । मम गुरुस्नेहोपि गुरुजनो जनः संजातः।तत्किमेव सर्वदा शोकहुतभुजा दह्यमानदेहायाः प्रयास्यन्ति दिवसाः,उत समागमो भविष्यति समं तैः' इत्यभिदधाना श्रुता मया'। 'वत्से,ततः किमुक्तं तेन भगवता, किं च तवाम्बया पुनः' । 'तात, तेनेदमभिहिताम्बा--'वत्से, मा विषीद । भविष्यत्यचिरेण ते सर्वैर्ज्ञातिभिः सह समागमः' । अम्बयापि तच्छुत्वा समुपजातपरमपरितोषया पुनर्विज्ञापितोऽसौ प्रणम्य सादरम्---भगवन्, उद्धृताहमनेन तव वचना-