पृष्ठम्:तिलकमञ्जरी.pdf/२८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

जयगतिलब्धजयपताका जानासि विविधाभिर्भङ्गिभिरलंकर्तुमित्यनेकशः श्रुतमस्माभिः । अमूलमनं कार्मणं तव प्रतिकर्म किमपि सुभगं- करणमङ्गनानाम् । तथाहि-प्रसादपरया त्वया रचितचतुरप्रसाधनाः परिणतवयसोऽपि सधस्तरुणतां प्रतिपद्यन्ते । प्राजापत्या अपि पराजयन्तेऽन्तःपुरिकाजनस्य रूपम् । कुरूपा अप्यप्सरायन्ते स्त्रियः । वचनचातुर्य तु ते जन्मान्तराभ्यस्तमिव शरीरेणैव सार्धमाविर्भूतम् ।अर्भकत्वेऽपि भुजङ्गजनगोष्ठीषु परां प्रतिष्ठामागतासि । प्रागल्भ्येन खभावमधुराः सर्वजनहृदयहारिणः क्षणमात्रपरिचितेऽपि जने जनितविश्रम्भाः कस्य नाम न विस्मयमावहन्ति, कं वा विधेयं न कुर्वन्त्यपूर्वाभिर्भङ्गिभिरुद्भासिताः पदे पदे तव विनोदकथालापाः । कथयामि वाग्मिनि, विवक्षितम् । या इमाः पवनगतिना संप्रत्युपदर्शिताः,का इमाः कन्यकाः खलु निखिला अपि भारतक्षेत्रदक्षिणार्धमध्यमखण्डवासिनां मण्डलपतीनामात्मजाः । कथंचिदवगतस्वरूपैरेवं रूपवत्य एवं कलाकुशला इति पूर्वमेव निवेदिता विद्याधरैरानीताश्च संप्रति कुतूहलतरलितैरलंकर्तुमियं यात्रोत्सवम् । अत्र चास्य भगवतश्चराचरगुरोरभिषेकमगलानन्तरमेव प्रवर्तयिष्यन्ति संगीतकम् । अतस्तथा प्रसाधय, यथैताः शिथिलयन्ति स्त्रीखभावसुलभं साध्वसम् , विस्मरन्त्याकस्मिकबन्धुजनवियोगजनितमुद्वेगम् , आसादयन्ति परतन्त्रतादर्शनेन दूरीकृतं प्रमोदम्, गृह्णन्ति महाजनसमा जलजास्तम्भितं लासलीलाभ्युपगमम्, अवतरन्त्यनाकुलाभिरणयष्टिभिरङ्गीकृतशृङ्गारचेष्टारङ्गभूमिम् , अभिनयन्ति सम्यगभिनेयमर्थजातम् , आरोपयन्ति मेक्षकजनस्य प्रमोदमग्रभूमिम्, आवहन्ति च सहृदयहृदयवर्तिनो रसस्य परिपोषमेव ते प्रकाशयितुमतिचिरकालं शिक्षितुं प्रसाधनकर्म-