पृष्ठम्:तिलकमञ्जरी.pdf/२८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी। २६७

विच्छाययन्ती विद्याधरीगणमग्रतो निषण्णास्ते, एषापि यदुनरेन्द्रवंशविशेषस्य महेन्द्रमलयाद्रिमध्यवर्तिमेदिनीपालमौलिसंघट्टमसृणमाणिक्यपादपीठस्य हठगृहीतसकलदुष्टारातिकोशकाञ्चनस्य काञ्चीपतेः कुसुमशेखरस्य मलयसुन्दरी नाम । या च निजसौन्दर्यनिर्जिताप्सरोरूपविममा लक्ष्मीरिव क्षीरसिन्धुफेनपटलस्य पट्टांशुकवितानकस्य तलभागे तरलतारकमवलोकयन्ती वामतोऽवलोक्यते, एषाप्यशेषविद्वज्जनवयंग्राहविलुप्तसकलगृहखापतेयस्य कुसुमपुरसततवाससफलीभूतजन्मनो मनस्विनां धौरेयस्य मगधेश्वरस्य सूरकेतोः शकुन्तला । यापि विरतनिद्रनीलोत्पलश्यामाभिरामवर्णा दानलेखेव सर्वतः परिमला स्वैरापतद्भिरलिकदम्बकैराकुलीकृता मत्तवारणमलंकरोति, असावपि सैन्यभरदलितपाश्चात्यसिन्धुरोधसः क्रीडदवरोधसुन्दरीखच्छन्दोपभुक्तरैवतकपरिसरोद्यानस्य सौराष्ट्रमण्डलपतेर्महाबलस्य बन्धुमती । याश्चैता विचित्रवेषधारिण्यः स्फाटिकवितर्दिकोपविष्टाः क्षोभविरतविभ्रमैः ससंभ्रममितस्ततो बलद्भिरीक्षणैर्मण्डपक्षणेषु विकचेन्दीवरदलोपहारमिव पातयन्ति, एता अपि कलिङ्ग-वङ्ग-अङ्ग कोशल कुलूतादिदेशवामिनामवनिपालाना-मिन्दुलेखा-लीलावती-मालतिका-मदनलेखाप्रायाभिराख्याभिरधिगतप्रख्यातयो देशान्तरेषु दुहितरः । इत्यभिधाय तूष्णीमास्थिते तस्मिन्स राजा स्मेरतारकः सविस्मयमालोक्य ताः समस्ता अपि प्रत्येकं कन्यका मां च किंचिद्वलितकन्धरो नातिनिकटे समुपविष्टामुत्कृष्टवसनालंकारमूषितविग्रहामग्राम्येण मण्डनप्रकारेणाकारेण च परं प्रसाधितामितस्ततोऽभिव्यज्यमानजरसि प्रौढे वयसि वर्तमानामेकां विलासिनीं सपरिहासमवोचत्-चित्रलेखे, त्वं हि वत्सायाः पत्रलेखायाः परं प्रसादभूमिः प्रधानसैरन्ध्री सकर्मकौशलेन कृत्स्नेऽपि