पृष्ठम्:तिलकमञ्जरी.pdf/२८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

यानां घाम्नस्त्रिभुवनाद्भुतानामतिमहावकाशकुक्षेर्माणिक्यमण्डपस्यैकदेशमनेकदिव्यनरनारीनिकुरम्बसंबाधमध्यासितवती । सर्वतः प्रहिततरुणलोचना च तत्कालमङ्कुरितेन कौतुकेनैकदेशस्थितामार्यरूपधारिणीमेकामतिक्रान्तबहुवयसमजनामुपगम्य सविनयमपृच्छम्—'आर्ये, क एष कमनीयताकदर्थितसकलपृथ्वीदेशप्रत्यादेश इव गीर्वाणभूमेरतिसेव्यसंनिवेशः प्रदेशः। क एते चित्ररत्नाभरणरमणीयाः कल्पधारिणः कल्पतरव इव जङ्गमाः सौम्याकारवपुषः पुरुषाः। कश्च किनामधेयोऽयमेषां सव्यवर्ती मर्त्यलोक इव जगतां मेरुरिव मेदिनीभृतां महात्मा भूमिपतिः ।' इति पृष्टा च सा निश्चलनिहितदृष्टिरतिचिरमवलोक्य मन्मुखं सकरुणमवादीत्--'वत्से, किमन्यदेशागता त्वम् । अत्रत्या न भवसि येनैवमभिदधासि शृणु। निवेदयामि । एष भूषणं सर्वद्वीपानां पञ्चशैलो नाम दक्षिणस्य सलिलराशेरन्तरद्वीपः इमेऽपि सत्त्वसाहसैकधनाः प्रसाधनाराधनविधिविधेयीकृतविविधविद्यासंपादिताद्भुतसिद्धयो वैताढ्यगिरिनगराश्रया गगनचारिणः । विद्याधरोऽसावप्यमीषामधिपतिः प्रतापितानामग्रणीधर्म इव मूर्तिमानार्तजनशरण्यः शासिता दुर्वृत्तानां निर्वृतिपुरं भीतानामद्भुतपराक्रमश्चक्रवर्तिर्विचित्रवीर्यो नाम ।  अथ सहसैव कनकवेत्रलतापाणिरेकः पुमानुदारगम्भीराकृतिरुपसृत्य तं विद्याधरपति व्यजिज्ञपत्---'देव, दीयतामितः क्षणं दृष्टिः ।येयमभिनवप्रियङ्गमञ्जरी पिशावदातदेहा कनककमलचापयष्टिरिव हरहुताशनलुष्टसकलमलकलवा कुसुमकार्मुकस्य निजत्विषा तिरस्करोतीव मणिपदीपान , इयमखिलावनिपालतिलकस्य यौवनोपचयपीनपाञ्चालललनाकुचोन्नाहलालितपृथूरस्थलस्य कुशस्थलपतेः प्रतापशीलस्य कुसुमावली नाम । इयं च मार्जितमणिप्रदीपदीसदेहा खदेहच्छायया