पृष्ठम्:तिलकमञ्जरी.pdf/२७४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमलरी। २५७ मागत्य द्वारदेशे दत्तदर्शनामध्वरेणुधूसरचरणयुगलां कन्दफलमूलपूर्णमभिनवं पलाशपत्रपुटकमुद्वहन्तीं वनान्तरादागतां परिचारकामवलोक्य मामवोचत्-'राजपुत्र, निरन्तरलतागुल्मगहनान्तरितदर्शनस्य वननिवासिनस्तपखिलोकस्य कृताकृतमिव ज्ञातुमम्बरशिखरमारूढोऽयमखिलजगतः कर्मसाक्षी भगवानुष्णरश्मिः । गन्तव्यमधुना मया मध्याह्नकालक्रियाकरणाय वनमध्यम् । त्वमप्युत्तिष्ठ सहितो मयैव । अनुतिष्ठ मध्यंदिनकृत्यम् । आसन्नवर्ती भोजनसमयः' इत्यभिधाय चलिता । आगता च क्रमेण रमणीयपरिसरामेकामरण्यसरसीम् । तस्याश्च पृथुलमणिशिलासोपाननद्धे तीर्थरोधसि कृतावस्थानो स्थापयित्वा कमण्डलुमादाय कुसुमान्यासन्नजाताभ्यो वनलताभ्यो निक्षिप्य सलिलक्षालितेऽन्यतमसोपाने कृतवाना दत्तदिनकरार्धाञ्जलिर्जपन्ती पवित्राणि गायत्रीपदानि तावदास्त, यावन्मे देवतार्चनकर्मनिर्माणमगमत् । अवसिते च तस्मिन्नुत्थाय सा प्रथममेव प्रक्षाल्य पुलिनभूमावुद्धापितं परिधाय हंसधवलं दिव्यतरुवल्कलांशुकमन्तिकं मे समागच्छत् । उपनीतपत्रपात्रा च पुरतो निविश्य सादरं स्वहस्तेनापवर्जितैः सुधारसस्वादुभिः सुरलोकपादपफलैर्विधाय मामपगताहारवाञ्छमच्छशिशिरेण सरसाम्भसा कारितोपस्पर्शना मदुपनीतशेषं कन्दमूलफलमाखादितवती मुक्तावसाने च विहितेतिकर्तव्या समागत्य नातिनिकटे ममोपाविशत् ।स्थित्वा च कंचित्कालमवचना पूर्वदृष्टमिव सहसंवृद्धमिव दृढमारूढप्रणयमिव चिरसमागतमभीष्टबन्धुमिव सनेहमवलोकयन्ती पुनः पुनमा तमेव पूर्वमावेदितं विस्तरेण द्विपापवारवृत्तान्तमपृच्छत् ।दृष्ट्वा च तां तथाविधामतिरेकमन्तःप्रकटितप्रीतिमुत्पन्नदृढतरसौहृदोऽहं सोद्वेगमवदम्-'महामागे, नैसर्गिकान्तःखच्छतापिशुनेन १७ति. मं.