पृष्ठम्:तिलकमञ्जरी.pdf/२७१

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
एतत् पृष्ठम् परिष्कृतम् अस्ति

२५४ काव्यमाला। तां गत्वाथ गुणमध्वनैकेन पुनरपि प्रतिनिवृत्तामुपरि पतितेन पादपप्रसवरेणुना परामृष्टपूर्वदृष्टसकलावयवशोभां क्वचित्संवत्सरां क्वचित्सविलम्बा काप्यपथगां कचिन्मार्गलग्नां सरलां सैकतषु कु्ञ्चितां कुश- स्तम्बेषु खण्डिता खण्डशैलेषु वलितां वृक्षमूलेषु कुटिलां पङ्कपटलेषु विरलां बालवननदीवेणिकोत्तरेषु स्पष्टामूखरेषु नष्टां शिलाफलकेषु निश्चलया दृशा निपुणमीक्षमाणः पदश्रेणिमेलालतासदनस्य प्रान्तवर्तिषु वननिकुम्नेष्वतिविरच्यवरमुपलब्धपर्यन्तश्च पर्यायेण तस्याः क्षणेनैव शिथिलीभूतसर्वाङ्गसंधिः सविधवर्तिनस्तरोरेकस्य मूले निरवलम्बमात्मानममुश्चम् । क्रमातिवाहितविततमून्धिकारश्च 'किं करोमि, कां दिशमनुसरामि, केनोपायेन तां पुनरपि द्रक्ष्यामि शून्येऽस्मिन्नरण्ये' इति विचिन्त्य वारंवारमुत्थाय च ततो वृथाशया तरलिताशयस्तुङ्गमारुह्य तटमेकमुन्मुखः सकलान्यपि समन्ततो दिङ्मुखान्यवलोकयम् । अपश्यं च तस्य सरस उत्तरे तीरे दूरतः श्रूयमाणमुखरपक्षारवमेकहेलयोत्पतितमन्तरिक्षे दिङ्मुखान्याश्रयन्तं जलपतत्रिणां समूहम् । उपजातकुतूहलश्च तेन तस्याकस्मिकक्षोभेण गत्वा दृष्ट्वा च सर्वतो दत्तनिपुणदृष्टिम्तं प्रदेशमकरवं मनसि-'हन्त, यथेदमतिदूरसीमन्तितसान्द्रशैवलप्रतानमभिनवोपलक्ष्यमाणकोमलमृणालिकामङ्गमसकलपशान्तपककलङ्कधूसरसरस्तीरसलिलम् , यथा सरसकर्णिकावलयैरविवर्णकेशरकलापैर्विकाशदूरोत्तानपत्रपतिभिस्त्रुटितनालैरपि सरोरुहैरलंकृतेयं पुलिनभूमिः, यथा तोयार्द्रपदपङ्क्तिषुमुद्रितरेणुषु मार्गों दृश्यते तथा तर्कयामि सांप्रतमेव कृतप्रातःसानो दत्तदिनकरार्धाञ्जलिः पुरुषेषु नारीषु वा गतः स्थानादितः कोऽपि निजमावास इति संप्रधार्योदङ्मुखस्तेनैव दृष्टेनाध्वना स्तोकमव्रजम् अपश्यं च तं दिगन्त-