सामग्री पर जाएँ

पृष्ठम्:तिलकमञ्जरी.pdf/२६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी २४९ गन्धर्वो वा खेचरो वा भवामि भूमिगोचरः । अहमखिलदिङ्मुखख्या- तकीर्तिरखण्डितप्रसरवाहिनीवाहखुरपुटक्षुण्णदक्षिणापरपूर्वजलधिवेलावनस्य सर्वावनिपालमौलिमुकुटघृष्टाङ्गिनखमणेरिक्ष्वाकुवंशालंकारस्य राज्ञो मेघवाहनस्यात्मजन्मा हरिवाहनो नाम कुमारः कान्तारमूमौ कथंचिद्वीणया वशीकृत्य विघृतमात्मीयमेव सेनावारणं प्रधानमधिरूढो निरङ्कुशः केनाप्यविज्ञाततत्त्वेन व्योमचारिणा वैरिणेव तमनुप्रविश्य भूमिमेतामानीतः । समुत्खातशस्त्रिकादर्शनोपजातसंत्रासेन च सहैव दूरनिर्झरिणानिनादेन मुक्त्वा निरालम्बममृतरला(१)दवाङ्मुखमात्मदेहमिह महासमुद्रगम्भीरोदरे सरसि निक्षिप्तः । समुत्तीर्य च ततो यथाकथंचित्पस्थितेन दृष्टा मया दृष्टिहारिणी हरिणाक्षी रमणीयवृक्षगुल्मेऽस्मिन्प्रदेशे सूक्ष्मसिकतायां पुलिनभूमावभिव्यक्तशुभलक्षणा चरणपदपतिः । तां च कौतुकादनुसरन्सरस्तीरमण्डनमिमं लतामण्डपमनुप्राप्तः । दृष्टं च भवत्यनुभूतं चिरादनेकजन्मान्तरसहस्रसंचितस्य सुकृतराशेरेककालमवाप्तपरमपरिपाकं फलम् । अवधारितमवधिभावेनाङ्गनारूपनिर्माणकौशलं विधातुः। कवलितोऽगस्त्यचुलुकस्पर्धयेवैकहेलया दूरकृतविस्तारेण चक्षुषा समस्तदिङ्मुखोल्लङ्घ(?)लावण्यजलधेः । निष्फलापि सफलीभूतेयं विदेशयात्रा । सांप्रतं यातुमिच्छामि । पृच्छामि त्वाम् । कथय । कोऽयं जनपदः, किमाख्योऽयमचलः, केन पुण्यात्मना खानितमिदं सरः, कः प्रशास्ति भुवमेतां भूमिपतिः' इत्यादि पृष्टा मया सा कन्यका प्रसत्तिमगमत् ।  अवनतमुखी च स्थित्वा मुहूर्तमदत्तोचरैव तस्मादशोकतरुतलादचलत् । आभरणमणिरणितवाचालितलतामण्डपोदरा च किंचिद्वामतः कुर्वती मामभिमुखमगमत् । स्थित्वा च स्थिरद्वारनिकटे मुहूर्तमीषद्वलि