पृष्ठम्:तिलकमञ्जरी.pdf/२६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२४८ काव्यमाला।

तस्या दिग्व्यापिना तेन दीप्तिपटलेन रूपलावण्ययौवनपुरोगैश्च मित्रभावमेकत्रागतैरजलतागुणैनितान्तमानीतविस्मयो मनस्यकरवम्-

गृहकवलनाद्भ्रष्टा लक्ष्मीः किमृक्षपतेरियं
मथनचकितापक्रान्ताष्वे(?)रुतामृतदेवता ।
गिरिशनयनोदर्चिर्दग्धान्मनोभवपादपा-
द्विदितमथवा जाता सुमरियं नवकन्दली ॥

जानीथ श्रुतशालिनौ बल युवामावां प्रकृत्यर्जुनी
त्रैलोक्ये वपुरीदृगन्ययुवतेः संभाव्यते किं क्वचित् ।
एतत्प्रष्टुमपास्तनीलनलिनश्रेणीविकाशश्रिणी
शकेऽस्याः समुपागते मृगदृशः कर्णान्तिकं लोचने ॥

 निर्वर्ण्य चातिचिरकालमालपितुकामस्तदभिमुखोऽभवम् । सापि मां तथागत्य द्वारदेशे कृतावस्थानमेकाकिनमाबद्धनिश्चललक्ष्येण चक्षुषा प्रत्येकमवयवानवलोकयन्तमवलोक्य समुपजातसाध्वसा सहसैव प्रबलमारुताहता बालकदली कन्दलीव कम्पितुमारब्धा । दृष्ट्वा च तां तथाविधमुपजातकरुणोऽहं विधायाकारसंवरणमर्पितनिर्विकारस्तिमितदृष्टिस्तन्मुखारविन्दे स्थानस्थित एव तां शनैरवदम्-'बालिके, का त्वम् । किमर्थमेकाकिनी प्रविष्टा शून्ये लताजालकेऽस्मिन् । अकस्मादेवमुद्भान्तचित्ता भीतेव दिक्षु क्षिपसि विकसितेन्दीवरदलदामदीर्घान्दृष्टिपातान् । किं च मां दृष्ट्वानिष्टशङ्किनीवात्मनो वारंवारमपवारिततनुतनीयसा स्तनांशुकेन संकुचसि रक्ताशोकविटपकस्यास्य मूले । कृतं सुभ्रु, संभ्रमेण ! मा स्म भैषीः खल्पमप्यस्माना....ना.... नन्निहावस्थितामुन्मथ्यमानो मन्मथेन न त्वां निमित्तीकृत्याहमायातः । न च त्वदपहारे कृतप्रयत्नः क्रूरात्मा कश्चिदसुरो वा गह्यको वा