पृष्ठम्:तिलकमञ्जरी.pdf/२६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२४४ काव्यमाला

शिलातलोपविष्टमेकाकिनमनिवारितापतत्पुरुषमध्यदिनानिललुप्यमानवपुषमनवरतजायमानकण्ठास्यशोषमात्मानमवलोक्य संजातविस्मयश्चिन्तितवान्-'अहो विरसता संसारस्थितेः, अहोविचित्रता कर्मपरिणतीनाम्, अहो यदृच्छाकारितायामभिनिवेशो विधिः, अहो भङ्गुरस्वभावता विभवानाम् । अद्यैव तादृशीतृणीकृतत्रिदशपतिविमानसौन्दर्यसंपदि निजे सद्मनि सुहृत्समेतो वीणावादनादिविनोदजनितमानन्दमनुभवन्नवस्थितोऽहमथैव दुर्गगिरिकान्तारमध्यवर्ती परिवृतो वनश्वापदशतैरन्यवैदेशिकपथिकसामान्यमवस्थाविशेषम् । एवमस्वस्थमानसो मानयामि न तद्राज्यम् न ते राजानः, न स मदान्धगजघटासहस्रसंकुल: स्कन्धावारः, नते छत्रचामरादयो नरेन्द्रालंकाराः, न तानि श्रवणहारीणि चारणस्तुतिवचनानि । सर्वमेव स्वमविज्ञानोपमं संपन्नम् । आस्तां च तावदन्यदप्रत्यासन्नमारोप्य येन स्कन्धमात्मीयमहमेतां भूमिमानीतः । यश्च सार्धंं मयैवासिन्नगाधसलिले सरसि मग्नः, सोऽपि नास्ति प्राणभूतो मे पट्टवारणः । न ज्ञायते वराकस्य किं तस्य वृत्तम् । किमतिवेगपतनादुरुत्वाच्च कायस्य गत्वा दूरमस्य सरसो मूलपक्के विलमो गाढम् , उतान्तराल एव गच्छन्हेलया समकालमेव प्रधावितैः शकलीकृत्य कवलितो महाकायैर्जलचरैः, उतापरमवस्थान्तरं किमपि संप्राप्तः । किं चैकमिह शोच्यते । सर्व एवायमेवंप्रकारः संसारः । इदं तु चित्रं यदीशमप्येनमवगच्छतामीहशीमपि भावनामनित्यतां विभावयतामीदृशानपि दशाविशेषाननुभवतां न जातुचिजन्तूनां विरज्यते चित्तम्, न विशीर्यते विषयाभिलाषः, न भङ्गुरीभवति भोगवाञ्छा, नाभिधावति निःसङ्गतां बुद्धिः, नाजीकरोति निर्व्यावाधनित्यसुखमपवर्गस्थानमात्मा । सर्वथातिगहनो बलीयानेष संसारमोह इति परिभाव्य