पृष्ठम्:तिलकमञ्जरी.pdf/२६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी।

श्रमस्वेदजलकणः क्षणेनैवास्य पर्वतपतेरेकशृङ्गाख्यस्य शिखराप्रवर्तिनमाकाशप्रदेशमासादयम् । दृष्ट्वा च निकटवर्तिनं पुरो वैताढ्यमीषद्गलितदार्ढ्य इति मनस्यकरवम्----'एष कुञ्जरः केनाप्यसुरेण राक्षसेन वा पूर्वजन्मनि मया कृतं स्मृत्वा कमप्यपकारमुत्पन्नकोपेनानुप्रविश्य नीयते वश्यम् । न हि पशूनां खरूपेणाकाशगमने कदाचिदस्ति शक्तिः । न चातिवेगादवगम्यते कियन्तमध्वानमहमनेनानीत इति । तदयमद्यापि यावदतिदूरं न याति क्षितिगोचरैरलक्ष्यशिखरोच्छायमचलं वा नैनमुल्लङ्घयति, पयोधिमध्ये द्वीपान्तरे वा न मां प्रापयति, तावदेनं व्यावर्तयामि' इति संप्रधार्य तिर्यगुन्नमितकूपरः पाणिना दक्षिणेन जघनावनद्धां खड्गधेनुकामस्पृशम् ।


 दृष्ट्वा च तां समुत्खन्यमानामखण्डितोल्लसदसितलोलांशुमालाकरालितदिगन्तामुत्पातविद्युतमिवाम्बरे विस्फुरन्ती सचारणः सहसैव मुक्ताभीषणनिनादः सपक्षशैल इव कुलिशोत्रासितस्तथैव स्कन्धबद्धासनं समुद्वहन् मामुदधिगम्मीरे सरसि तस्मिन्नदृष्टपाराख्ये सत्वरोपसंहृतपुरोगमनमात्मानममुञ्चत् । पतनसमनन्तरमेव च तिरोभावमुपगते तत्र निरवलम्बनोऽहं पतनवेगानिमज्जदूरमतिचिरादुन्मनोऽप्यजातसंक्षोभः पर्यायेण विहितायतोत्क्षेपविक्षेपाभ्यां भुजाभ्यामनवरतमभिमुखाकृष्टसलिलस्तूर्णमेव तीर्त्वा सर उरोदघ्ननीरं तीरदेशमस्यासादयम् ।

 तत्र चारोहणसमयलग्नेन गात्रोद्भूलनरेणुना गगनागमनवेगश्रमविकीर्णेन च तस्य करिणः कराग्रशीकरजलेन कलुषीकृतं प्रक्षाल्य शुचिरमनमुत्तीर्य मध्यादुद्वाप्य निःपीडिते निबिडमवगलितपर्युषितागरागविमले दुकूलवाससी कृताचमनजलपानादिकर्मा निविश्यैकस्य कूलासन्नवर्तिनो लतागुल्मस्य मूले मुहूर्तमतिवाहितश्रमः खस्थचेतास्तथा