पृष्ठम्:तिलकमञ्जरी.pdf/२५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२३० काव्यमाला।

जाता दाडिमबीजपाकसुहृदः संध्योदये तारका
यान्ति प्लुष्टजरत्पलाल्तुलनां तान्तास्तमस्तन्तकः ।
ज्योत्स्नापायविपाण्डुमण्डलमपि प्रत्यङ्नमोभित्तिभा-
क्पूर्णेन्दोर्जरदूर्णनामनिलयप्रागल्भ्यमभ्यस्यति ॥

उद्यज्जाड्ड्य इव प्रगेतनमरुत्संसर्गतश्चन्द्रमाः
पादानेष दिगन्ततल्पतलतः शङ्कोच्चयत्यायतान् ।
अन्तर्विस्फुरितोरुतारकतिमिस्तोमं नभःपल्वला-
द्ध्वान्तानायमयं च धीवर इवानूरुः करैः कर्षति ।

सद्यः संहृतघोरघूत्कृतिमनाग्ध्यामीभवदृष्टयो
जीर्णानोकहकोटराणि शनकैर्मार्गन्त्यमी कौशिकाः ।
किं चास्कन्दति शैलकन्दरभुवो भिन्नं करैरारुणै-
रेतद्दपकरालकोलकपिलश्यामं त्रियामातमः ॥

ताम्बूलद्रवरागराजिरुचिरैर्मध्ये बहिषूसरैः
किंचिन्नूतनकाश्चनारसुमनःपत्रं हसन्त्योऽधरैः ।
एताः पण्यपुरंध्रयो निधुवनक्रीडाजडैरङ्गकै-
निर्गत्य प्रियसद्मनः स्ववसतेर्वीथीरलंकुर्वते ॥

जाताः सर्वदिशो दिनान्धवयसामन्धास्तवेव द्विषां
प्राप्यन्ते घटना रथाङ्गमिथुनैस्त्वद्वान्छितार्थैरिव ।
आरोहत्युदयं प्रताप इव ते तापः पतत्विषां
द्रष्टुं नाथ भवन्मुखनियमिवोन्मीलन्ति पद्माकराः ॥'

 श्रुत्वा चेदमुन्मिषितलोचनः सलीलमुत्थाय शयनारससैनिको नगरवाह्मायां जगाम । परिप्रभ्य च स्वभावरमणीयपरिसरेष्वारामेषु सरःसु देवतायतनमण्डलेष्वावासमाजगाम । मध्याह्नसमये च दूरादेव