पृष्ठम्:तिलकमञ्जरी.pdf/२४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२३२ काव्यमाला। निश्चलपक्ष्मणा निस्तरङ्गतारकेण चक्षुषा पिबन्तीवालपन्तीवाहयन्तीक सविधं समुपवेशयन्तीव सप्रेमबहुमानमपश्यत् । अत्रान्तरे कनकवेत्रहस्ता प्रविश्य प्रतीहारी सप्रश्रयमवनिपतिकन्यकां तां व्यजिज्ञपत्- 'भर्तृदारिके, देव्या पत्रलेखया त्वज्जीवितपरित्यागव्यवसायवार्तामाकर्ण्य लोकादधिकमुत्पन्नहृदयोत्कम्पया विसृष्टः कञ्चकी द्वारि तिष्ठति इति मुखनिहितनिश्चललोचना च विलम्ब्य क्षणमलब्धोत्तरा सत्वरमेव निश्चक्रम ।

निर्गतायां च तस्यामतिकान्ते कियत्यपि कालक्षणे गीतविधिविचक्षणः कोऽपि मध्यंदिनावसरया पाठावसाने समासन्नदीपिकातीरवर्ती बारंवारमावर्तितपदामामिमामुच्चैरगायत्-

'तव राजहंस हंसीदर्शनमुदितस्य विस्मृतो नूनम् । सरसिजवनप्रवेशः समयेऽपि विलम्बसे तेन ।' श्रुत्वा च सुचिरमेतामवगतार्थों विहस्य हरिवाहनस्तां महाराजकन्यामवादीत्----'देवि, दैवज्ञवेदितस्य विद्याधरराजराजधानीपुरप्र- वेशलमस्य समयाभिलनशङ्किभिः शाक्यबुद्धिपुरःसरैः प्रवर्तितो बुद्धिसचिवैः विराधनामा नरेन्द्रनर्मसचिव एष हंसमिषेण मामितो गमनाय त्वरयति । तदादिश । गच्छाम्यहम् । त्वमपि गत्वा देवीमवलोकय' इत्यभिदधानः सहसैव मागधजयध्वनिकलकलेनोदतिष्ठत् । द्वारसंगलितसत्वराङ्गरक्षकरतलप्रचलदुत्वातखामण्डलीपरिगतश्च विकचनीलोत्पलवनमध्यचारी राजहंस इव गत्वा सविनमं ससंप्रमा- घोरणढौकितां कुम्भपीठपातिताङ्कुशकोटिघट्टनोपविष्टामनवरतनिष्ठुराक्रोशकर्शितोत्थानयनां यामगजवशामग्रतोऽधिरूढेन समरकेतुना समर्पितपाणिरध्यरोहत् । अथोष्णीषपट्टकृतशिरोवेष्टना दृढाकृष्टकञ्चक-