पृष्ठम्:तिलकमञ्जरी.pdf/२४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२३० काव्यमाला।

तोपधानमब्जिनीपत्रसंस्तरमधिशयानया जगत्रयातिशायिरूपलावण्यया नवीनवयसा नरेन्द्रकन्यया सनाथीकृतपाचमतिपैरपि कृतोर्ध्वावस्थानैरनुजीविभिरिव परिवृतं कदलीभिरप्यनिलदोलायितदलामिश्चामरयाहिणीभिरिव वीज्यमानं धरण्याप्युपरिघृतसरलकाण्डसुरपादपया गृहीतातपत्रयेवोत्सङ्गितमह्नापि तरुशाखान्तरप्रवेशितप्रांशुरविकरेण प्रतिपनकनकवेत्रेणेव प्रकटितानुभावं हरिवाहनमद्राक्षीत् ।


अथोपसृत्य पुरतः सत्वरेण स्खलत्पदप्रसरया गिरा गत्या च सूचितहृदयहर्षप्रकर्षेण 'देव, दिष्ट्या वर्धसे । परागतो युवराजः समरकेतुः' इत्यावेदिते गन्धर्वकेण संभ्रान्तचेताः सहसैव हरिवाहनः परित्यज्यमानतया राजकन्यया सह प्रवृत्तां कथां 'कथय कथय, क्व वर्तते क्व वर्तते' इति सगद्गदं गदन्नासनादुत्तस्थौ । द्वारदेशावस्थापितेक्षणश्च दृष्टवानीपदवनतदृष्टिपातमापतन्तमभिमुखे दुःखविधृतकण्ठदेशागतोगाढबाष्पगमकृत्रिमानुरागेण सुहृदा प्रथममेव प्रणयिनीकृताया विद्याधरविषयभूमेर्महादेवीपदाभिषेकमिव कर्तुं तुषारनिष्पन्दशिशिरैरानन्दानुवारिभिराकर्णमायते नयनपात्रे पूरयन्तमविरलकरालीगलन्नखमयूखजालजलधारेण रोमाञ्चजालकमुचा मन्दं मन्दं दोलायमानेन प्रांशुना भुजादण्डद्वयेन सद्य एव प्रतीर्णायाः सुहृद्दर्शनपतिज्ञापगायाः पारमाश्रयन्तमिव लक्ष्यमाणमतिशयकर्कशेन वातातपस्पर्शनातिमात्रकर्शितमपि जलनिधिमिवापरित्यक्तसहजलावण्यमभिनवलताप्रताननद्धविकटोर्ध्वजूटमधिजघनमासक्तसूक्ष्मवल्कलमनिलविललितेन वनतरुपुष्परेणुना धूसरितसकलावयवमनेकदुःखनिधानमानुष्यकद्वेषण वृक्षतामिव लब्बुमारब्धोद्यममाधारमिव धैर्यस्य, हृदयमिव सौहृदस्य, स्वतत्वमिव सत्वस्य,परिपाकमिव पौरुषस्य , जयस्तम्ममिवावष्टम्भस्य