पृष्ठम्:तिलकमञ्जरी.pdf/२४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी २२१ मुखो बभूव । सोऽपि तं तथोपसर्पन्तमुद्धीक्ष्य सहसोपसंहृतपीठनिभृतः कृतावस्थितिश्च तत्रैव देशे समरकेतुरयमिति दृढोपजातप्रत्ययोऽपि तावत्यांं भूमौ तथाविधस्य तस्यासंभावयन्नागमनमुपजातभ्रमः स्तम्भित इवाकृतोचितप्रतिपत्तिर्मुहूर्तमवतिष्ठत् । कृताभिभाषणश्च स्मितार्द्रदृष्टिना सिंहलेन्द्रतनयेन सत्वरमुपेत्य शिरसि रचिताञ्जलिः प्रणाममकरोत् । प्रसारितोभयभुजापाशकृतदृढाश्लेषं च तं नमस्कृत्य भूयः प्रमृष्टरजसि निजवस्राञ्चलेन निकटवर्तिन्येकत्र पट्टशालामत्तवारणकमणिपट्टे न्यवेशयत् । प्रस्तुतांघ्रिसंवाहनश्च गन्धर्वक, सर्वदाभिवान्छितप्राप्तिना कथंचिदनुकूलदैवसंपादितेन दर्शनेनैव ते विगतः श्रमोऽस्माकम्' इति निवारितो वारंवारमपमृत्य नातिसंनिवेशो तस्यैव मत्तवारणस्यैकपार्श्वे निषसाद । कृतासनपरिगृहं च तं प्रहर्षपुलकितास्थमानन्दजलवर्षिणा विरतपक्ष्मसन्देन चक्षुषा निरीक्ष्य सुचिरमीषत्कृतस्मितः समरकेतुरुवाच -'सखे गन्धर्वक, गाढं दृढस्मृतिर्भवान् । दृष्टमात्रा अपि प्रत्यभिज्ञाता वयम् । विस्मरणशीलाः सकाममित्येतावतो दिवसानस्माकं त्वयि बुद्धिरासीत् , येन तदानीमयोध्यायामुपवनाध्यासिः 'कुमार- हरिवाहनस्याग्रतः प्रातरेवाहमागमिप्यामि' इत्यभिधाय प्रस्थितेन तत्सुवेलप्रस्थगोचरं खेचरनगरमतिचिरेणापि न कृता प्रतिनिवृत्तिः, न व स्वकुशलदानमात्रेणापि जनिता नश्चित्तवृत्तिः। केवलमगाधशोकजलनिधौ निक्षिप्ताः। किं तस्य वृत्तम् , किं व्यसनमापतितं येन नायातः, इति भवन्तमुद्दिश्य तत्तदनभिशङ्कनीयमाशङ्मिकमानानामनुदिव- समस्माकमतिगताश्चत्वारोऽपि ते वर्षकल्पा वार्षिकमासाः । कथय । किं तदाकारणमनागमनस । किं सत्यमेव विस्मृता वयम्, अवश्य- करणीयेन वा केनापि महता कार्यान्तरेणान्तवोपस्थितम् , अबाध्व-