पृष्ठम्:तिलकमञ्जरी.pdf/२३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी वनचरोऽपि तथाविधः कश्चिदालोक्यते यमापृच्छ्य सम्यग्वृत्तन्तमेनमवगच्छामि । यद्वा किमनेन पृष्टेन ज्ञातेन वा । प्रयासमात्रफलेन प्रयोजनम् । ज्ञात्वापि कस्य प्रतिपाद्य निर्वतो भविष्यामि विना कल्पकोटिजीविना कुमारहरिवाहनेन । न जाने वयस्यः क्वेदानीं वर्तते । इत्यादिचिन्ताव्याक्षिप्तचेतस एवास्य सुरासुरवृन्दनिर्दयाकर्षण- अमन्मन्दरतटाच्छोटनसमुच्छलदमृतशीकरासारशिशिरस्तर्पयन्निवार्दयन्निव हृदयमतिशयपेशलो ध्वनिरतर्कितव्यक्तिरेव श्रवणकन्दरे मन्दमन्दमविशत् ।  उपजातसंभ्रान्तिना च मानसेन तस्य शब्दस्य दत्तकर्णस्तम्भित इवोत्कीर्ण इव लिखित इव निश्चलसर्वाङ्गः क्षणमात्रं सिंहलराजपुत्रः स्थितवान् । अथ सहसैवोद्भिद्यमानपुलकाञ्चितकपोलभित्तिना विलोललोचनोत्पलेन मुखशशिना प्रकाश्यमानाधिकसंभ्रमः समचिन्तयत्- हन्त, किमिदमकाण्ड एवापरमाश्चर्यमुपनतं यतः क्वचिदत्र केनापि कलकण्ठकोमलगिरा श्लोक इव पठ्यते । तत्र च हरिवाहनशब्द इवोच्चार्यमाणः श्रूयते । क एष हरिवाहनः । किं वयस्यः, आहोस्विद्वयस्यनामधेयाभिधेयः, कोऽप्यपरः, कुतोऽत्र वयस्यस्य संभवः, प्रायः केनापि करुणापराधीनवृत्तिना दिव्येन ममेदमाश्वासनं क्रियते । कृतमलीकविकल्पकल्पनाभिर्मनसा खेदितेन । पश्यामि तावत्कः पुनरेष पठति इति कृत्वा मतिमुन्मुक्तवातायनस्त्वरिततरमायतनान्निर्गत्य पाठशब्दमनुसरन्नामोदिहरिचन्दनोदकच्छटासिक्तेन मौक्तिकचतुष्कविरचनाचारुणा कुङ्कुमारुणाभिरजनाचरणपदमुद्गाभिर्द्विगुणितकनकपङ्कजप्रहारेण. झङ्कारानुमीयमानपरिमलान्धनिलीनमधुलिहा महानीलमणिकुट्टिमेन व्योम्नेव, यामिनीपतिर्याम्यद्रिङ्मुखाभिमुखः पदशतमात्रमन्तरं