पृष्ठम्:तिलकमञ्जरी.pdf/२३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

.२२ काव्यमाला। संघातघोरे संसार इवातिदूरपारेऽस्मिन्महाकान्तारे सारभूतं धर्मतत्त्व- मिवानेकभृङ्गगम्भीरं सरो दृष्टम् । अथ तदवगाहनकर्मनिर्मलीभूता- त्मना त्रिविष्टपमिव त्रिदशोपभोगयोग्यमुन्निद्रकल्पद्रुममालामनोहरमुद्यानमिदं क्रमेण चापवर्गस्थानमिव वर्णनापथोत्तीर्णमाहात्म्यखरूपमेतज्जिनायतनम् । अतः परं किमन्यदवलोकनीयम् ।  संप्रति हि दीयते दर्शनीयकथानां मुद्रा, क्रियते तेजस्विवार्तानां निवृत्तिः, वितीर्यते आश्चर्यदर्शनस्योदकाञ्जलिः, विधीयते लोचनयोरुभयथापि पट्टबन्धः, कथं नु नामास्स प्राणिन इव कार्त्स्येन कर्मपरिणतिविशेषा, ज्ञायन्ते ज्ञायमाना अपि केन प्रकारेण, वर्ण्यन्ते वर्ण्यमाना अपि कया युक्त्या परस्य प्रतीतिविषयमारोप्यन्ते । वञ्चिताः खलु दिवौकसोऽपि ये परित्यक्तसुरलोकवसतयः सततमिह न वसन्ति । किमन्यजन्मान्तरे कृतमवदातमेभिः पारापतप्रभृतिभिः पत्ररथैः कर्म येन तिर्यक्त्वेऽप्युपनतोऽयमायतनच्छद्मना विमानवासः। न जाने केन सुकृतकर्मणा निर्मापितमिदम् , केन वा निर्मितम् , कुतो वा स्वशिलाराशिरेतावानेष लब्धः । न तावदतिसमृद्धोऽपि मर्त्यधर्मा कश्च्ननापि कारयितुमिदमीश्वरः । न विश्वकर्माणमन्तरेण कर्मनैपुण- मित्थंभूतमपरस्य शिल्पिनः संभाव्यते । न च रत्नसानुगिरेरन्यत्र रत्नदृषदामीदृशीनामुत्पत्तिः श्रूयते । सर्वथा देवनिर्मितेनामुना भवितव्यम् । मन्ये च येनैतदायतनमुत्पादितं सरोऽप्यदस्तेनैव खानितमारामोऽप्येषः । तस्यैव कीर्तिर्या चास्य वृत्तान्तस्याभिव्यक्तेः कारणम् ।तस्यामपीह प्रशस्तावष्टादशलिपिव्यक्तिव्यतिरिक्तः कोऽप्यपरो लिपिविन्यासः । स एष व्यक्ताक्षरोऽपि न शक्यते ऊहितुम् । केवलमालोकितपूर्व इव चेतसि चमत्कारमातनोति । न चात्र संचरणे