पृष्ठम्:तिलकमञ्जरी.pdf/२३४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी। ग्रहचक्रालंकृतमृगभाजि सिंहोद्भासिते नभस्तल इवोलघीयसि सिंहासने निबद्धपद्मासनामुपर्युपरि विरचितोत्तानकरयुगलकिसलयिताहमध्यामा मङ्गिनीभिः कृष्णागुरुपतलिखिताभिरिव पत्रमालतामिः केशवल्लरी भिरध्यासितोभयांशपीठामपामागचुम्बितश्रवणां तेन किंचिन्नतपक्ष्मणाः निर्विकारतारकेण चक्षुषा विद्योतितबदनेन्दुबिम्बामसावलम्बिधवल चामरसुरेन्द्रसेवितसव्यापसव्यपाश्चर्यां प्रभापहृतबिम्बलक्ष्मीलाभाय भास्व - तेव सेवागतेनातिभास्व राकृतिना प्रभामण्डलेनोद्भासितामिन्दुमण्डलं सितातपत्रत्रयीप्रकाशितत्रिभुवनैश्वर्यामशेषतश्च विविधविमानवाहना- धिरूढेरत्युदाराकृतिभिरप्सरोविराजितपाचरनिमेषलोचनतया रूपालोक- नपरैरिव कैश्चिदास्फालितदिव्यन्तर्यैः कश्चिदुत्सृष्टकुसुमवृष्टिभिः कैश्चि- ल्ललाटघटिताञ्जलिपुटैरम्बरतलवर्तिभिः कृत्रिमसुरसमूहैः परिकरिता- मार्द्रगोशीर्षचन्दनारागवाहिनीमामौदितमन्दिरोदराभिर्मकरन्दलोभल- मैरतिनिष्पन्दतया प्रसुप्तरिव मूर्छितैरिव प्रथितरिव मधुकरैः सारी- कृताभिः पारिजातकुसुमसम्भिरभ्यर्चितामगाधमवजलधिसेतुबन्धस्स बन्धनिर्मुक्तात्मनो मुक्तिसुखैककारणस्य निष्कारणबन्धोः परमकारु- णिकस्य शरणार्थिजन्तुसार्थसाध्वसमुषो निनिमेषेण केवलज्ञानचक्षुषा साक्षात्कृतसकलभावस्य भुवनत्रयगुरोर्युगादिपार्थिवस्य प्रथमजिनपते- पभस्य निर्मूषणामप्यनन्तगुणभूषणामपहस्वितगमस्तिमालितेजसा विग्रह- बतेव केवलालोकेन सर्वानेभ्यो विगलता प्रभापूरेण परितः परीतां महापमाणां चिन्तामणिमयी प्रतिमामपश्यत् । अनन्तरं च निरन्तरोदञ्चदुच्चरोमाङ्कुरकदम्बकेन कदम्बकेसरोपहा रमिव किरता विग्रहेगोवनपक्ष्मामलमोज्वलाचजलविद्युषा महामुका- पन्धर्षमिबोलिपता चक्षुर्द्वयेनोपलक्ष्यमाणदयानन्वथुना मन्धरमुपसृत्य