पृष्ठम्:तिलकमञ्जरी.pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिलकमारी। प्यायतोष्णान् पुनः पुनः खा(श्वा)सपवनान् मुञ्चतः परमचिन्ताध्वयाम- जन्मना प्रचीयमानेनानुदिनमप्रतिविधेयेन देहशिना कदय॑मानस ग्रीष्मकालादधिकदुःसहो बभूव वर्षासमारम्मः । अथ प्रोषिते जलदसमये तद्वियोगादनुदिवसमाविर्भवप्रबलातपा- यामभिनवपतिप्रवासदुःखितस्य विरहिणीजनस्य सदृशावस्वमात्मानमिव दर्शयितुमागतायां शरदि हरिवाहनः सर्वथा गन्धर्वकागमननिष्पत्या- शस्तिलकमञ्जरीसंततस्मरणजन्मना विक्लवीकृतो गाढमतिदारुणावेगे- नोद्वेगेन कथंचनाप्यशक्नुवन्गृहेऽवस्थातुम् , एकदा खमण्डलावलोकन- विषयमात्मनः कुतूहलमुद्दिश्य प्रधानमनिमुखेन पितरं व्यजिज्ञपत् अनुज्ञातगमनश्च तेन प्रशस्तेऽहनि समस्खनिजसैन्यपरिवृतो विविधया- नवाहनाधिरूढेरुज्वलविदग्धवेषधारिभिः समरकेतुपुरःसरैः सुहृद्धि- रनुगम्यमानस्तत्कालशून्येषु नागरिकाजनमनःसु रक्षणमिव निवेश्य निश्चलं रणरणकमतिभूयसा विभवविच्छदें साकेतनगरानिरगच्छत् । अवहच्च वर्मनि प्रतिदिनमविच्छिन्नैः प्रयाणैः । प्रयान्तं च तं यह- च्छया तेषु तेषु जनपदेष्वासन्नयायी तत्रत्यराजलोफस्तत्कालोचितरा- लापैरकृतनिर्वेदा. विनोदयामास । तथाहि-एष निःशहो विचरदर- ण्यगजयूथव्याप्तकन्दरो दूरदृश्यमानोदप्रशिखरश्रेणिना परिगतोपरिख- नगरः स्थवीयसा प्राकारवलयेन बन्दीकृतानामरिनरेन्द्राणामेकमन्दिरं मन्दरकाल्यो दुर्गगिरिः, असावनेकनिकटग्रामपरिसरविसारिसारिणि- जला सरावती नाम किमपि सेव्यकूला सरित् , एतदुन्मदचक्रवाकव- क्राकुररकारण्डवाकुलमुद्दण्डकमलिनीखण्डमण्डितनीरमंशावतार इव दीरजलधेः पुरा दिग्विजयागतेन देवेन सानितं सरः । एष दससी- रसहस्रसंमितसीमासूर्यग्रहणपर्वणि पूर्वमपवर्जितो मदिरावतीदेच्या