पृष्ठम्:तिलकमञ्जरी.pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७० काव्यमाला। च भावाचव सुताभावेन संजातेति परिमाव्य सादरं द्रष्टव्या ।' इति । नष्टनिद्रया च तया रूपदर्शनेन विना दुहितुरनुरागोत्पादनं रूपदर्शनं साक्षादशेषभारतवर्षभूपतिकुमाराणामतिमात्रदुष्करमवधारयन्त्या तस्मिन्नेव क्षणे समाहूय सर्वान्तःपुरप्रतिबद्धसैरन्ध्रीगणप्रष्ठाप्रेष्ठाप्रकृत्यैव जननी मे भर्तृदारिकाया धात्री चित्रलेखा नाम सादरं समादिष्टा- 'ससि चित्रलेखे, त्वं हि चित्रकर्मणि परं प्रवीणा । चित्रदर्शनानु- रागिणी च वत्सा तिलकमञ्जरी। अतोऽस्याः सकलनिजपरिवार- वाराङ्गनाचित्रकौशलदर्शनव्याजेन दर्शय निसर्गसुन्दराकृतीनामवनि- गोचरनरेन्द्रप्रदारकाणां यथाखमक्कितानि नामभिर्यथावस्थितानि विद्ध- रूपाणि । वर्णय च तेषामाहितोत्कर्षया गिरा त्यागसौभाग्यविभव- वैचक्षण्यलावण्यादिगुणगणम् । अचिन्त्या हि देवशक्तिः । एवमपि कृते कदाचित्वापि विश्राम्यति चक्षुरस्थाः ।' 'तथा' इति प्रतिपद्य तच्छासनमावेद्य च सविस्तरं तत्रैव क्षणे विसर्जिताः सर्वदिक्षु दक्षाश्चित्रकर्मणि समस्ता अपि खस्यात्मनः प्रतिबद्धाः। शुद्धान्तसैरन्ध्री- दास्योऽहमपि तत्र समये समासन्नवर्ती सादरमभिहित:--'वत्स गन्धर्वक, तवाप्ययमेवाधिकारः केवलं सुवेलगिरिवासिनो निजपितु- विचित्रवीर्यदेवस्य पार्थे त्वमद्य कार्यवशेन देव्या पत्रलेखया प्रस्था- पितोऽसि । अतो न शक्यसे वक्तुमन्यत्किमपि । किं तु कृतराज- कार्येण तस्मात्समागच्छता त्वया विज्ञापनीयमिदमस्मद्वचो नभश्चरेन्द्रस्य --या सा सकलदाक्षिणात्यसामन्तमौलिविश्रान्तचरणनखमरीचेः काश्चिनगरीनायकस्य राज्ञः कुसुमशेखरस्य सर्वान्तःपुरप्रमुखा महादेवी गन्धर्वदत्तेति नामसाम्यादुपजातसंदेहेन रनकूटाद्रिबन्धावुदधिजलपरि- क्षितपीठे खयंभुवि तत्र दिव्यायतनमण्डले विहितयात्रेण रात्री सादरं