पृष्ठम्:तिलकमञ्जरी.pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। नरेन्द्रतनयस्तु वीक्षितेन सर्वातिशायिना तस्य चारुत्वेन श्रुतेन चास्याः कुतूहलविधायिना विदग्धालापेन जनितप्रीतिर्गृहीत्वा तमादरेण 'भद्रे, किमत्र लिखितम्' इत्यभिदधानः संनिघाने समासीनायाश्चामर- प्राहिण्याः समुपनिन्ये । सलीलवलितभूलतालक्षिताज्ञया च तया तत्क्षणमेव विस्तारिते पुरस्तात्तत्र निहितहष्टिरत्युत्कृष्टरूपां रूपिणीमिव भगवतो मन्मथस्य जयघोषणामुदारवेषसविशेषचारुगात्रीमचिरप्राप्त- यौवनां कन्यकारूपधारिणीमेकां चित्रपुत्रिकां ददर्श । विममर्श चादृष्टपूर्वाकृतिविशेषदर्शनदूरविकसत्चारया दृशा त्रिभुवनातिशायिनी- मस्याः शरीरावयवसमुदायचारुतामतिचिरम् । अनुपरतकौतुकब्ध मुहुः केशपाशे, मुहुर्मुखशशिनि, मुहुरघरपन्ने, मुहुरक्षिपात्रयोः, मुहुः कण्ठकन्दले, मुहुः स्वनमण्डले, मुहुर्मध्यभागे, मुहुर्नाभिचक्रामोगे, मुहुर्जधनमारे, मुहुरूरुस्तम्भयोः , मुहुश्चरणवारिरहयोः, कृतारोहावरो- हया दृष्टया तां व्यभावयत् । अनुरागभावितमनाश्च परिवृत्य किंचि- खदाकारदर्शनोत्सुकचेतसः समरकेतोः कमलगुप्तप्रमुखानां च प्रधानराजपुत्राणामदर्शयत् । अपृच्छच्च तां प्रसादप्रहितदृष्टिारपालीम् -'वज्रार्गले, कुतः समासादितमिदमसंभाव्यदर्शनमन्यत्र दिव्य- लोकाचित्रम्' इति । अब्रवीच सा--'कुमार, विज्ञापयामि । श्रूयताम् । यतः प्राप्तमिदमिदानीमेव द्वारदेशमशून्यं विधाय कौतुकाकृष्टा द्रष्टुमुद्यानलक्ष्मीमितो गतास्मि । सविस्मयप्रहितचक्षुषा च तत इतः प्रसर्पन्त्या मया सरिघटासम्मतरुणतरुखण्डमध्यवर्तिन्यतिमुक्तकलता- मण्डपे तत्क्षणानीतसलिलाईनलिनीपलाशकल्पितं तल्पमधिशयानो मनसिशय इवातिशयतीवामीशाननयनाभिदाहवेदनां विनोदयितुमायाव एको दर्शनीमारुतिः पञ्चदशवर्षदेचीयो वैदेशिकः पथिकदारको