पृष्ठम्:तिलकमञ्जरी.pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमारी। फलतम्बमुमयश्रवणशिखरावलम्बिनं बिभ्राणाम् , अविरलवदातदन्त- कुआलममलगण्डफलकमनिलविलुलितविनीलालकालिकमनीयमनिभृत- भूलताविलासमुन्नतनासाचंशमभिनवप्रवालपाटलाधरमुत्कलितकालागुरु- तिलकशोभमाबद्धनिबिडपुष्पापीडमाक्रीडमिव रतिपतेरुभयकर्णपाश- दोलायमानमाणिक्यदन्तपत्रं वदनशतपत्रमुद्रहन्तीम्, उदधिनापि तरचलिततनुशीकरक्षोदनां जालकेन करविधूतश्वेतचामरेणेवोपवीज्य- मानाम् , प्रत्युषसापि गगनमरकतस्थालनिहितदिनकरप्रदीपेन प्रस्तुता- रात्रिकेणेव कृतोपस्थानाम् , दिगन्तैरपि दूरमुल्लसितैः सामिलाङ्करिव प्रतीष्यमाणपटुविलेपनामोदाम् , वेलावनतरुभिरपि विबुद्धशकुनिकृत- कोलाहलैरुद्धतमदनोन्मादैरिव परिवृताम् , अन्तरिक्षेणापि गलदव- श्यायबिन्दुना बद्धस्मरखेदेनेवोत्सङ्गिताम् , निशान्तमरुताप्याकृष्टकमल- केसरचयेन रोमाञ्चिता नेवालिजिताम् , मदशक्तिमिव मन्दरान्दोल- नात्पलायिताम् , मदिराया निष्पन्दधारामिव मुष्टिनिपीडनाद्विगलिताम्, अनभेक्षुचापयष्टेर्द्विरष्टवर्षवयसं दिव्यरूपां कन्यकामद्राक्षम् ।' इति कथारसाक्षिप्तचेतसि खवृत्तान्तमावेदयति समरकेतौ निश्चलपक्ष्मलेखे लिखित इव पश्यति सति तदीयमुखमभिमुखप्रहितशि सभ्यलोके पथीकृतान्तरकथेष्वाकर्णयत्सु सकुतूहलमन्तरान्तराविस्तारितहर्षकोला- हलेषु कमलगुप्तप्रभृतिषु प्रधानराजपुत्रेषु प्रचलितशिरसि सप्रपञ्चमा- कर्णयति सति सरसतां कथापनरस्य मुखीरमुख्ये बन्दिवृन्दे सहसैव होत्फुल्ललोचना प्रविश्य प्रतीहारी हरिवाहनं व्यजिज्ञपर---'कुमार, युवराजवार्ताद्भुतश्रवणेन पीतमतिचिरं कर्णामृतम् । इदानीमीक्षणामृतं क्षणमेकमाखाद्यताम् । इत्युदीर्य दूरावनतपूर्वकाया दक्षिणकरेणादाय सादरमुपरितनवसनपल्लवमान्तसंयतं दिव्यं चित्रपटमुपनिन्थे । ११वि.मं.