पृष्ठम्:तिलकमञ्जरी.pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। म्बुघेरपथदृष्टस पार्थिवलोकस्य वृथागमनलज्जाविलक्षाक्षमाननं दर्शयितव्यम् । कयं च दूरादेव दर्शितस्मितस्य पार्श्वमुपगतवतः क गताः किमर्थ गताः किं दृष्टं किमनुभूतं किमासादितमित्यादि पृच्छतः प्रणयिवर्गस्य सहसा हेपणं खचरितमावेदनीयम् । कयं चावासस्थान- मुपागतेन दुर्विनयबनितोद्वेगाः खतन्त्र इति कृत्वा तूष्णीमेव सर्वे समर्पितखाधिकारमुद्राः प्रसादनीया राज्यचिन्तकाः प्रधानपुरुषाः । कवं च हृदयदाहलचितानुवृत्तीनामनुलचनीयवचसां वृद्धबन्धूनामधो- मुखेन सदसि सोढन्याः श्रवणपरुषा रोपतिरस्काराः । सर्वथा घिग्मां चापलोपहतमनात्मज्ञमुत्सृष्टाभिमानमसमीहितकारिणम् । अनेनाप्यदृष्ट- शिष्टव्यवहारेण सर्वदा प्राकृतलोकसहवासिना तारकेण तरल इति कुतूहलीति कीडनशील इति संभावितम्' इत्याधनल्पमनेकसंकल्प- कवलितचित्तवृत्तेश्चिन्तयत एव मे जगाम परिणाममप्रतर्कितैव रजनिः। ऊर्ध्वकिरणरजुस्तम्बलम्बमानशशिबिम्बनागरादपरदिग्भागयानपात्रादव- ततार सांयात्रिक इबंकृताम्बरजलधियात्रः शनैः शनैरन्धकारः। किं वृथा नदसि । मथने यदि मया रत्नानि ते कक्षीकृतानि तदुत्क्षेपैतदित्य- वतार्य शिरसः पुरो मन्दरक्षितिभृताक्षिप्तमुत्तरीयक्षौममिव पिण्डीकृत- मिन्दुमण्डरूमाकुलाकुलप्रसारितोर्मिहस्तो जग्राह जलषिः । प्रमुख एव प्रवृत्तमेषस्य तत्तचलितरोहिणीकवृषस्य कापि कापि विभाव्यमानतुला- धनुषः प्रभात एव प्रस्थितस्य तारकासार्थस्य चरणोत्थापितो रेणुविशर इन धूसरारुणो नभः सरणिमरुणदरुणालोकः । ततः क्रमेण रक्षिताम्बरे तुहिनकरविरहविदलितविभावरीहृदयरुधिर इव निपतति भरण्यामरुणरामे, तिमिरकरिरेचितेषु पांसुतल्पेष्विव खोकमुच्छसत्सु दिग्भागेषु, अपरमागसंक्रान्तनक्षत्रभारावर्जित हव. पूर्वभागमतिदूर-