पृष्ठम्:तिलकमञ्जरी.pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमलरी। १४५ पञ्चपैः कर्णधारैरात्मनः सहायीकृतैरनुगम्यमानेन सर्वतो दत्तसप्रयत्न- दृष्टिना रक्षिता निपुणमद्रितटसंघट्टमनुवेलं वीक्ष्यमाणेन सुश्लिष्टबन्धा- नपि फलकस. "न्निरुन्धतातूर्णमूर्णासिक्थकेन सूक्ष्ममपि विवरेभ्यः क्षरतोयमनुक्षणमनिलसंक्षोमेषु नूतनाः संयोजयता रज्जूरजर्जरस्यापि वारं वारमापादयता सितपटस्य पाटवम् , इतश्चङ्कम्यते मकरचक्रम्, इतः परिक्रामति नक्रनिकरः, इतः सरति शिशुमारश्रेणिः, इतः प्रसर्पति सर्पपङ्क्तिः, उत्सर्पयत दीपिकाः, प्रकाशयत सर्वतो मार्गम् , अपसारयत निकटघारिणो दूरं दुष्टजलचरान्, अयमनुप्रस्थमचलस्य घटुलवेल्लितलालबल्लिरार्द्रवल्लूरशङ्कया रक्तांशुकपताकासु पातितदृष्टि- रुपित्सुरिव चेष्टते सिंहमकरः, किरत रंहसामिमुखमस्य पयसि ज्वलन्तीरग्नितैलच्छटा, इदमकस्मादवलोकनक्षुभितमुत्रस्तकलभसंवरण- विहस्तयूथपं तीरशायि जलहस्तियूथमग्रपथेन पाथोनिधिमवतितीर्षति । त्वरितमुत्सारयत युगपदाहितेन हस्ततालशब्देन दूरमसौ रसातला- त्सद्य एवोन्मग्नो वज्राग्निधूमकाषमषीकल्मावपक्षसंपुटैः शिखरिमिरधि- ष्ठितपृष्ठभागो मठ इव सपारापतः संचरति कमठो मा प्रतिष्ठध्वमभिमु- खमेव निकषा प्रस्थितो नेष्यत्यपथेन नावमसावपि विदारितगिरिक- न्दकारतुण्डो मानदण्ड इव सागरस्य ग्राही सीकृताकन्दज्जलकरि- जटालबदनैर्वालमत्स्यैरनुसृताभिर्मत्सीमिरनुगम्यमानो मृगयते निभ- प्रासोचितं सत्त्वं सत्वरमितस्ततः स्तिमितया गत्या तिमिङ्गिलो मा विवत कलकलं यातु निमृतमेव विकृत एष महतेऽन- र्वाय। बश्यतामयमतिचटुलवीचिवेगाकृष्टैर्भ्रमदिरन्तः कुलाचक्रक्रमेण रित्कोदरलघुभिरभ्रैरारावेदितो द्वारमिव रसासकस्य वामतः समीपवर्ती श्रीमावों ममतामयमपि क्षेपीयः क्षयसमवसंध्यानरपिताम्बरैक १.वि.मं.