पृष्ठम्:तिलकमञ्जरी.pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला प्रमोदहेतुश्च यात्रेयमिति भावय स्वयं तस्वदृष्टया नहि सन्निकृष्टा यामा, यदि दुरुपपादा यां च कल्याणसंपदि कदाचिदीदृशी निरात- ङ्कता त्वरा च चितवृत्तेर्भवति तदलमपायशङ्कया । कुरु स्थिरमास्थान एव भरीभूतं चेतः । चिन्तय प्रस्थानकालोचितं सकलमात्मी- यकल्पम् । अर्पय तमस्तिरोहितवस्तु साक्षात्करणाय रजनीसमयक्षेप- णीयमीक्षणयोरञ्जनम् । नियोजयान्ययानपात्रिकासत्तिनिरपेक्षः सहा- यपक्षे युगायत्तं निजमेव भुजयुगलमध्यवसितस्य ते गोप्पदमदृश्य- मानपारः सकलोऽप्यकूपारः । किं पुनश्चक्षुःपरिच्छेद्द्यमहिमा तदेक- देशः' इति ब्रुवाणामपि. क्षणं स दोलायमानचित्तः स्थित्वा पुनरवा- दीत्--'कुमार, भ्रूक्षेपमात्रव्यापारणीये मयि किमियता वचनवि- स्तरेण । यद्यवश्यमेव गन्तव्यमिति निश्चयस्तन्न कश्चिदपि ते कौतुक- प्रतिपन्थी । प्रस्थीयतामभ्युदयाय सज्जोऽयमाजन्मनः परिपोषितः । सर्वे. प्यन्यराजकार्येष्वनुपयुक्त एतावन्मात्रप्रयोजनः प्रेष्यजनः' इत्यभिधाय प्रणतेन मूर्ध्ना बद्धा नमस्काराञ्जलिमुदन्वते । तत्क्षणोपनताभिप्रेतशकु. नप्रगुणितमनोवृत्तिः प्रवर्तयामास गमनायासं दोलायमानध्वजध्वनित- किंकिणीनिबद्धोद्धुरविरावां नावम् । प्रावर्तयच्च प्राचेतसेन ममणमसृण- मनुसततूर्यनिखनो दिक्पथेन । प्रस्थितायां च तस्यां सहसवै स्पन्दिता- घरपुटमचिरभाविनमानन्दमिव मे निवेदयामास । दक्षिणचक्षुराश्चर्यद- र्शनत्वरयेव सर्वतो विभाव्यमानरम्यरोमोद्भेदमश्वमिव जात्यमनिमित्तमे- वारुरोह । हर्षप्रकर्षमन्तरात्मा ह्युदयप्रसर्पदुद्दामहर्षोत्थापितश्च किंचि- दशेषनिद्र इव प्रारभत जृम्भितुमायताध्वपरिश्रमप्रसुप्तो गमनोत्साहः । अथ तेन सा स्वभावधीरेण सम्बगभ्यस्तयानपात्रमचारकर्मणा यथा- विभागमवस्थितैः स्थैर्यबहिरन्तिकस्यसकलखोपकरणैरमूढबुद्धिभिर्विधुरेषु