पृष्ठम्:तिलकमञ्जरी.pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। पार्श्वविधृतचामरछत्रधारादिद्वित्रपरिचारकतत्कालमन्तिकस्थमुदधिकूला- सन्नसलिलस्थिरावस्थापितनावमच्छिन्नसंतानमागच्छतस्तस्य गीतध्वनेर्द- त्तावधानं ध्याननिश्चलनयनतारकं तारकमवोचम्-'सखे, किमपि सुन्दरो गीतनिष्पन्दः श्रुतिविषयमवतरन्नेषवारंवारमभिनवाम्भोदगर्जोद्गार इव मयूरं सारसकुलक्काण इव निर्जलारण्यपथिकमधिकोद्भूतहर्षमाकर्षति ममान्तःकरणम् । आयासितश्च त्वमधुना न युज्यसे नियोजयितुम् । तथापि ब्रवीमि यदि नातिमात्रमध्वश्रमो बाधाकरः शरीरस्य । मन्दं वा न यात्रां प्रति मनः । ततः प्रगुणीकुरु गमनाय नावं यावदद्यापि पृष्ठतो वद्गतिशिबिरं यावदवतारयन्ति तीरभुवि सेनावरा यथास्वं कखराणि यावन्निरन्तराणि संचरन्ति सामन्तानामितस्ततो यानपात्राणि यावच्च मुक्तास्मत्संनिधिर्निवेशयति पटमन्दिराणि परितो राजकुलमा- कुलाङ्गरक्षवर्गस्तावदनुपलक्षिता एव यामः पश्यामश्च दिव्यगीतध्वनेरस्य प्रारम्भकं लोकं यत्र च क्वापि नगरे वा नगे वा सागरोदरसैकते वा ध्वनन्त्यमूनि वादित्राणि तत्र नियतमत्यद्भुतेन कस्यचिन्महाराजस्य राज्याभिषेकेण वा लोकत्रयस्न्यातचरितस्य खेचरेन्द्रस्य विद्यासिद्धिला- भेन वा प्रकृष्टरूपाकृष्टसकलराजकस्य कन्यारत्नस्य स्वयंवरप्रक्रमेण वा शक्रादिसुरवृन्दारकप्रतिष्ठितस्य देवताविशेषस्य यात्राव्यतिकरेण वा भवितव्यं न ह्यल्पीयसि प्रयोजने यत्र तत्र चोत्सवे कदाचिदेवंविधो भवति । सकलत्रिभुवनचमत्कारकारी समारम्भः समासन्नदेशप्रभवश्च वाद्यध्वनिरसाविति व्यक्ततयैव ताललयविशेषाणामवगतम्' इति ब्रुवाणामपि क्षणमधोमुखः स तूष्णीं स्थित्वा जगाद---'युवराज, गम्यते न कश्चिदपि दोषः, दृश्यते च कौतुकमिदम् , किं तु सर्वत एव दुर्गः पर्वतस्वास्य पर्यन्तेषु तोयराशिर्न शक्यते महान्तं यनमन्तरेण