पृष्ठम्:तिलकमञ्जरी.pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिलकमारी। रप्यन्यतो गच्छद्विः पश्यतोऽप्यभिमुखमलीभिदर्शयद्भिः शृण्वता- मपि चेष्टितमशहितैरुचखनेन सूचयद्भिविषमावतारसंमर्देषु दुर्दान्त- करभवाजिवृषभोलवनेषु व्याददद्भिः वेगोपसर्पणेषु च ज्वलतः पततः पलायमानानवलोक्यावलोक्य समकालकृतकलकलैः सतालशब्दमु- पेस्तरां हसद्धिः, कैश्चिन्मार्गनिहितनिश्चलदृष्टिमिः पश्चादेष्यतां दिग- न्तविख्यातयशसामुर्वीभृतां कुमाराणां राजपलीनां प्रधानगणिकानां पट्टस्तिहनां च दर्शनाशया क्षुत्पिपासापरिगतैरू-शोषं शुष्यद्भिः, कैश्चित्पष्टसशिखरपामरीपीवरस्तनस्पर्शलुब्धैः पीडितैरपि समन्ततः प्लेक्षिकजनेन स्थानमत्यजद्भिः, कैश्चिन्मनोरथशतासादितग्रामपतिस्ता- संनिधानलब्धमहानिधानैरिव खलधानतः साधनिकलोकेन निखिल- मपि नीयमानं चुसंवुसाय गत्वावधीरयद्भिः, कैश्चिद्गृह्यमाणयवसरक्ष- णव्यप्रैरर्थलोमादभिलषितलञ्चानां लश्चयालाकुटिलानां क्लेशमनुभवद्भिः, कैश्चिदाकृष्टहस्तिपकचोदितद्विरदपुरस्कृतैः प्रपलाय्य दूरीकृतात्महन- नैरात्मनो विडम्बनाय ब्राह्मण्यमाविष्कुर्वद्भिः, कैश्चिदनिबद्धलोकलु- व्यमानशाकवाटकैरघटितप्रयोजनामवनिपाशा सावज्ञमुपहसद्भिः, कैश्चि- दानन्दगद्गदिकागृहीतकण्ठनिगृहीतलुण्टाकवातवार्तया लण्टितेक्षुपाट- दुःखदुर्बलं कृषीवललोकमपशोकं कुर्वद्भिः, कैश्चिज्जवप्राप्तपरिपालक- न्यूहरक्षितसुजातहेयैरनेकधा नरेन्द्रमभिनन्दयद्भिः, कैश्चिदलब्धाक्का- शठकुरहठनिराकृतैराश्रयाय प्रतिग्रहं गृहीतभाण्डैराहिण्डदिः, कैश्चि- कलहनिष्कासितसालीनकुलपुत्रकवर्गः सगर्वमग्रतो ग्रामपोटानां प्रौद्धि- रात्मनः प्रकटयद्भिः, अन्यैस्तु दूरोदस्तकण्ठैः पृष्ठलमहटबालकवृन्द- कलकलसूचितान्माममध्ये विचरतः खच्छन्दचारिणो महामात्रतप्रेण परिवृतान्वारणपतीनवलोक्य जातसंक्षोमैटिति कोष्टकद्वारेषु संग्रह-