पृष्ठम्:तिलकमञ्जरी.pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। टमन्थरगमनामिरनणुमणिघण्टिकाघोषरमणीयमितस्ततो विचरन्तीभिः सततानुचरचाटुकारखैरसौरमेयोभिरचिरजातप्रसवाभिः अधश्चीनाभिश्च गोभिरशून्यपर्यन्तैस्तुहिनपातशीनहैयंगवीनवर्णतनुलतालावण्याभिः क्षीर- धवलवलत्कटाक्षच्छटाप्रतिक्षणक्षालितदिध्मुखाभिर्नवनीतपिण्डपाण्डुब- मत्कठिनपरिमण्डलस्तनकलशयुगलाभिर्गोरसश्रीभिरिव शरीरिणीमिः सविनमैरजवलनैः सहनिर्भराणि वीनि बल्लवहृदयानीव निर्दयमाम- थूतीभिर्गोपललनामिः सर्वतः समाकुलैगोकुलैरधिष्ठितकक्षीपकण्ठां नग- रसीमामलञ्चयम् । अथासराश्ववारदर्शनाभितैः 'कटकमागच्छति' इति जनरवादुप- लभ्योपलभ्य सर्वतः प्रधावितैः परित्यक्तनिजनिजव्यापारैरवकरकूट- केष्वधिरूढेस्तडागपालीषु पुनितैर्देवकुलवरण्डकेषु कृतावस्थानैः पाद- पस्कन्धेषु बद्धासनैरूवैश्वोपविष्टैश्च लम्बितोभयमुजैश्च जघनपार्थ- विन्यस्तहस्तयुगलैश्च शीर्णपट्टिकागादप्रथितासिधेनुकैश्च धौतसाटककृ- तशिरोवेष्टनैश्च वेणुयष्टिषु कृतावष्टम्मैश्च स्कन्धाधिरोपितदयितडि- म्मैश्च सर्वत्र सकुतूहलैरपि सविशेषं करिषु क्रमेलकेषु च प्रहित- दृष्टिमिः प्रमाणरूपबलोपचयशालिनां प्रत्येकमनडुहां मूल्यमानमुट्ट- यद्भिः कथय, क एष राजपुत्रः, केयं राज्ञी, किममिधानोऽयं द्विरदः' इत्यनवरतपयुक्तया प्रभपरम्परया कदार्थतसकदृष्टकटकस्य ग्रामला- कुटिकैः करेणुकाविरुद्ध क्षुद्रगणिकागणमप्यन्तःपुरमिति घृतोष्णवा- रणं चारणमपि महाराजपुत्र इति कनकनिष्कावृतकन्धरं वणिजमपि राजप्रसादचिन्तक इति चिन्तयदिः, पृष्टैरपि प्रतिवचनमप्रच्छयद्धि- 1. अद्य यो वा विजायते 'अयश्वीनावष्टन्धे (५।२।१३) इति खप्रत्य- यातः साधु