पृष्ठम्:तिलकमञ्जरी.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। प्राविशन् । अपरेऽपि तत्कालसेवोचिताः सवयसः प्रधानारजलोकाः संनिदधुः। यथास्थानमुपविष्टैश्च तैः सह प्रस्तुतविचित्रकथालापस्य चित्रपद- मासूचितानेकसुन्दरोदारा प्रवृत्ता कथंचित्तस्य चित्रालंकारमूयिष्ठा काव्यगोष्ठी । तत्र च पठ्यमानासु विद्वस्सभालब्धख्यातिषु ग्रहेलि- काजातिषु चिन्त्यमानेषु मन्दमतिजनितनिवेदेषु प्रश्नोत्तरप्रदेषु भाव्यमानासु प्रसन्नगम्भीरभावार्थासु खनज्ञकगाथातसु(१) विमृश्यमा- नेषु बाधानुपदसंपादितोत्सेकेषु बिन्दुमात्राक्षरच्युतकश्लोकेषु हस्य- मानेषु दीर्घकालानुभूतनिष्फलचिन्तामौलेषु प्राज्ञंमन्येषु प्रकाश्यमाने साधुवादविधेनाबुधानां बोधरमसे विजृम्भमाणा निर्भर शिष्याणां कौतुकरसे काव्येष्वतीव रसिकः सर्वदा निकटवर्ती कुमारस नर्म- पात्रं सकलराजपुत्राणां मञ्जीरनामा बन्दिपुत्रः किंचिदुपसृत्य हरि- वाहनमवोचत्-'कुमार, प्रक्रमागतमेव किंचिद्विज्ञाप्यसे । कुरु क्षणमात्रमेव धनदानेनानुग्रहमस्यैव समनन्तरातिक्रान्तस्य मधुमासस्य शुद्धत्रयोदश्यामहमहमिकोपदर्शितनिजविभवविच्छन नगरीनिवा- सिना मुजंगलोकेन भक्त्या प्रवर्तितं पात्रोत्सवमवेक्षितुमिदमेव सर्वतो विरचितविचित्रवस्त्रध्वजविधानमात्तकनकणवेश्याङ्गनाभुजा जनपरस्प- रारब्धजलसेकयुद्धं भगवतो मकरध्वजस्यायतनमागतोऽस्मि । विस्मय- मेरचक्षुषा च प्रविशता मया प्राङ्गणसहकारपादपस्य मूले मृणाल- सूत्रवलयितमीशविभाग मध्यभागविन्यस्तमुग्धस्तनमुखमुद्रेण स्त्यान तुहिनपाण्डुरत्विषा शोषाषिगतकाठिन्येन चन्दनपस्वेदिकाबन्धन संदानितोमयान्तमभिमतवियोगविधुराभीरकामिनीकपोलपाण्डताडी- पत्रखण्डमवलोकितम् । आदाय न सकौतुकेनोतरीयवसैकदेशे