पृष्ठम्:तिलकमञ्जरी.pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। पौरुषावलेपन तृणलघूनस्मान्मन्यमानमतिजवेन प्राप्तमभ्यर्णेऽस्य कटकी बर्तत इति श्रुत्वा प्रभुः प्रमाणम्' इत्युक्त्वा विरेमतुः ।। सेनापतिस्तु तत्तयोराकर्ण्य कर्णामृतकल्पं जल्पमुपजातहषों रणर- सोत्कर्षपुष्पत्पुलकजालकः सजलजीमूतस्तनितगम्भीरेण खरेण तत्क्षणा- दिष्टकिंकरससंभ्रमास्फालितमानद्धस्फुटप्रतिशब्दमिव दर्शयन् ध्वनन्तमा- जिदुन्दुभिमभ्यर्णचरमनुचरगणं स्थानयनार्थमादिक्षत् । नचिराच तेनान्तिकमुपनीतमुभयतः प्रचलदतिचारुपामुदरनिनिहितमहाहिमीप- णानेकानं पत्ररथराजमिव स्थानपाणिरध्यास्य रथं यथासंनिहितेनात्म- सैन्येनानुगम्यमानो युगपदाहतानां कुपितयमहुंकारानुकारिभाकारमैरखम- तिगम्मीरमारसन्तीनां समरढकानां ध्वनितेन पातयन्निव सबन्धनान्य- रातिहृदयानि, तारतरन्याहारिणां बन्दिवृन्दानां हृदयहारिणा जयश- ब्दाडम्बरेण मुखरिताम्बरः शिबिरान्निरगच्छत् । कृतव्यूहविरचनश्च समरसंक्षोभक्षमायामुपान्तभूमावस्थात् ॥ अथाकर्णितसमरमेरीनिनादजृम्भितानन्दाः सरसरोचनारचितललाट- तिलकबिन्दवो दूर्वाप्रवालदन्तुरैः शिरोभिरभ्यर्णचारिचारणोचार्यमाण- वीर्यसंपदस्त्वरितपदसंचाराभिरागत्य करिघटाभिः समन्ततः ससामन्त- चक्राः परिवारयांचकुरेनं सेनापतयः प्रत्येकपातितखिग्धदृष्टिना च तेन सप्रसादमादिष्टाः प्रणम्य निजनिजस्थानेषु तस्थुः ॥ अथ निशीथानुभावभाखरेण विषममुन्मीलिता निमीलिता च दीप- कानिवहेन पिशुनितममञ्जकूजत्काहलमाकर्ण्यमानतारपरुषहयोषारवमि- तस्ततः श्रूयमाणगम्मीरगजगर्जितमावेगतर्जिताश्वैर्वारंवारमधवारैरावेचमा- नागमनमनस्कन्धताडितोदुरसमरडकमढौकत । चक्षुषः पथि प्रतिपन्थि- बल्मविरनिरस्तसरनिकरशीकरासारडामरं च तदुरिरमसमुद्दामकलक-