१ ४
तन्त्रवार्तिके ।
क्तिपानत्वत्सवनधिकार हि।।७२॥
स्थितदुत्तरमनिन्द्रपीतेष्वपि अविकृत एव मन्त्रः प्रयो
क्तव्यो नामन्त्रकं भक्षणम्। कुतः।
इन्द्रेण यस्मिन्सवने पीतः सोमो निरूप्यते ।
तस्य योन्योपि संबन्धी स एवं व्यपदिश्यते ॥
नैवमभिसंबन्धः इन्द्रपीतस्य सोमस्येति किं तर्हि इद्रपीतस्य
प्रातःसवनस्य यः संवन्धीति । न च पtतःसवनशब्दः सोमस
मानधिकरणः क्रतुभगवचनत्वत्। तङ्गतसमवाचिन्वे च प्र
तःसवनीयस्येति प्रसङ्गात् । अतः सवनस्येन्द्रपीतस्येति च स
मानधिकरणे सोमसंबन्धव्यतिरेकजनिते षष्ठयै। सोमस्येति
तु व्यधिकरण सोमविषया ऽवयवव्यतिरेकनिमित्ता पर्छ ।
तेन पदन्तरसमथ्र्यात्संयोगप्रकरणविशशेष।च प्रयोक्तव्य एव
एष मन्त्रः । कस्मादेवं गृह्यत इति चेत् । सोमे भक्तवप्रस ङ्ग
त्। पूर्वसंकल्पितो द्वि समुदाय इन्द्रपीतो मुख्यः तस्य चाय
मवयवः उपचारादेवमभिधीयेत । न चैतद्युक्तम् । तस्मात्सर्वः
समानामिन्द्रपीतसवनसंबन्धिवन्मन्त्रवद्भक्षणमिति सिइमि
ति। इति श्रीभदृकुमारिल स्खमित्रिरचिते मीमांस।वार्तिके है
तोयध्यायस्य द्वितीयः पादः सुमप्तिमगमत् ॥
श्रीरामचन्द्राय नमः ।
पृष्ठम्:तन्त्रवार्तिकम्.djvu/८८०
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
