पृष्ठम्:तन्त्रवार्तिकम्.djvu/७७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


प्रथमाध्यायस्य द्वितीय: पाद ।


नप्रयोजनमस्तीति तद्विध्यानर्थक्यम् । तथा च दृष्टान्तो ऽपि ते
नैव पथा मध्वर्थिन इति यत्रान्यः पन्थाः पर्वतस्य तत्र गच्छेयर
पि न तु तेनैव गच्छन्ति । तस्माङ्गयसां कप्तानां विधीनामनग्र
चाय वरं कल्प्यानामेवानर्शकत्वम । न च फलविशेषार्थिनः प
राणि कर्माण्यविशेषश्रवणात् । न हि समानायां श्रुतावप्रत्यक्षा
सन् फलविशेषः कर्मविशेषेभ्यः शक्यः करूपयितुम्। म च स्तुति
रसत्यत्वादिति स्थितमेव ।

अभागि प्रतिषेधात् ।। ५ ।।

त्रोण्यपि पृथिव्यादिवचनानि श्रप्रतिषेधभागिनमथै प्रतिषे
धन्ति । अन्तरिक्षे दिवि च तावदप्राप्तत्वात्प्रतिषेधाविषयत्वम् ।
अतश्च पयुदसितव्याभावान्न पर्युदासः। अनन्तरिक्षे (१) ह्यदिवि
च पृथिव्यां नित्यं चयन प्राप्तमिति तद्विधिरनर्थको ऽथापि
नित्यानुवादस्तथाप्यक्रियार्थत्वमेव।पृथिवीचयनप्रतिषेधपर्युदा
सैौ तु चयनविध्यवाधेनाशाक्यैौ । बाधे च विध्यानर्थक्यम् । विक
ल्पे ऽपि पक्षे बाधः । कामसंयोगाचाग्नेरस्त्येव पाशिकत्वम् ।
दुर्बलश्च प्रतिषेधः । पृथिवीपरत्वे सति चयने कल्प्यत्वात् ।
एतटेवास्य खयमाकुन्नत्वम्। विध्यनन्तरमेव हिरण्यं निधाय चे
तव्यमिष्टकाभिरग्निं चिनुतएतञ्चाकुन्तयेत् । अरोचनाबुद्विस्तु
नैवोत्पद्यते।

अनित्यसंयोगात् ।। ६ ।।

सर्वपाख्यानेष्वन्यपरत्वासंभावान्खस्रपप्रतिपादनादनित्यसं
योगः । स च समस्तवेदप्रामाण्ये सति कथं चिदन्यथा नीये


(१) अनन्तरिक्षे एवेति पाठः ‘स्व ग' पुस्तकयोः ।