पृष्ठम्:तन्त्रवार्तिकम्.djvu/४३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६९ तस्मातके । अथ फलं प्रति साधनभूतं, ततः श्रुतयागपरित्यागात्सैव गतिः । न चाकारान्तरेण१) तन्निरूपयितुं शक्यते । तैनागमप्रमत्र- द्यागादेव फलेन भवितव्यम् । कथं नटः सधयतीति चेत् । य दि शाखदेवं गम्यते किं भवतो विद्यते । ध्रियमाणेन वा फलं सधनीयमित्यत्र किं प्रमाणम् । अपि च अकाशादीनि नित्य वस्थितानि कफात्फलं न साधयन्ति। यदि च श्रूयमाणतिरेके णऽवस्थायित्वसंभवादपूर्वेण फन्नं साध्यतइति कल्प्यते ततो व रमाकाशादेव कल्पितं, तस्य च स्थानस द्वावपि तात्प्रसि है। केवलं फलनिमित्तत्वमाश्रयणीयम् । अपूर्वं तु सङ्गवप्रभूति सर्वे निष्प्रमाणक्र क न्नपनीयम् । अथ यागसंवन्धिना केन चिद वस्थितेन फनं दातव्यमित्यभिप्रायः, तथा सत्यपि ! यष्टरेवात्मनो यागैस्संगतस्य स्थितस्य च । निमित्तत्वं वरं क्लप्तं लाघवं च तथा सति ॥ यदि यगस्य विनाशित्वादन्येन तत्सम्बन्धिना फलं सध्यमा नं यागेन साधितं भवति तती ।घवादतिक्रान्तयागेनात्मनैव वरं साधयितव्यम् । यद्द कर्मविनाशो ऽयं फलं नः सधयिष्यति। अङ्गियागविधानद्मि तद्यत्नेन कल्प्यते ॥ विनाशिनि च कर्मणि चोदिते कियद् दृश्यते कर्म च वि नष्टं शस्त्रप्रत्ययाच्च कालान्तरे फलं भविष्यतीति निश्चीयते यच्च यप्रतीत्योपजायते तत्र तस्य निमित्तत्वमित्यवधार्यते । तस्मा दभावनिमित्तमेव फलमस्तु । स्यादेतत् न क्व चिद्वस्तुनः साध कवं दृष्टमिति। तदुच्यते । अपूर्वस्थ वा कष्ट ष्टं येनात्राश्रयते त (१) प्रकारान्तरेणेति २ पुट पाठः।