पृष्ठम्:तन्त्रवार्तिकम्.djvu/३४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१ प्रथमाध्यायस्य चतुर्थः पाद । २८१ धर्मायानुपयुक्तं सदानर्थक्यं प्रपद्यते ॥ नहृते विध्यादिष्वन्तर्भवन्ति । साध्यसाधनेतिकर्तव्यानभि धयित्वात् तावच्चोदनाव। ह्यत्वं स्तुतिबुद्माभावादर्थवादातिरेकः । कर्माङ्गभूतैर्वसंज्ञकप्रकशयितव्यार्थाभावान्मन्त्र कार्यनिवृत्तिः । न चान्यवेदप्रयोजनमस्तोत्यप्रमाणमेवं जातीयका इति । अत्रा भिधीयते ॥ सर्वस्य त्रिविभागत्वाद्देदस्योक्तेन हेतुना । उद्भिदाद्यप्रमाणत्वमतिरेकन सिध्यति । यदा तदर्थत्रयान्यतमार्थमिति स्थितं तदा विचरः कि मर्थमिति । न तावदर्थवादत्वं वाक्यशपत्वाभावात् । कथं पुनरयं न वाक्यशेषो यावत वायवं क्षेपिष्ठेत्यादिवदेकवक्यता। ऽवग म्यते। नैतदस्ति । विधातव्यस्य हि यः शेषः सो ऽर्थवादः। अयं तु विध्युद्देशदेव नातिरियतइत्यवाक्यशेषः । तत्संभविनश्च स्तु त्युपयागित्वं न युज्यतइत्युक्तमाम्बराधिकरण । न चैकपदेन स्ततदृष्टा । न च ह तां प्रतिपद्यामहे । यदयझेदनं पशूनामने न क्रियत इत्येवं प्राशस्त्यं कल्प्येत तदपि दृतीयान्तसमदाया अयबलवत्तरकरणत्वप्रसिद्यया बध्यत । अन्यथा हि प्रातिपदि कप्रधान्यादा वायव क्षेपिष्ठतिवप्रथमंव प्रयच्यत । न च स्य मन्त्रत्वं, ताद्रप्येणाप्रतीतेः। अध्येष्टमरणभावाच्च । न चै कपदत्वात्साकाङ्कत्वं करणप्प्रतीत्या वा स्मारकत्वम्। न चैतदभि धेयः कश्चित्प्रयोगसमवाय्यर्थं दृश्यते । न च।समवेतप्रकाशने कर्माङ्गत्वम् । मन्त्रवर्णिकद्व्यकल्पनायामपि भैरवम् । न चचास्य सूक्तवाकवद्विनियोजिका श्रुतिरस्ति येन मन्त्रवर्ण कद्रव्यकल्पना स्यात् । न चास्य रूपं प्रयोगार्हम् । अत्र शवि 30 = A ९ ३६