पृष्ठम्:तन्त्रवार्तिकम्.djvu/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमध्यायस्य तृतीयः पादः । ९१९ समुदायस्ववस्तु त्वान्नैव संस्कारमर्चति। प्रत्येकं च भवद्यद्वदलिधर्मः प्रतीष्टकम् ॥ न च स्थलवदारम्भो वर्णाः शब्दस्य कस्य चित् । येन तत्संस्कृतिः सिद्धोत्स दि एवं निराकृतः । स्फोटगोशब्दताङ्गत्वप्रभतै पदकल्पना । गकारादिपदव्यख्यद्वारेणैव निराकृता । सर्ववर्तसमूहे ऽपि न संस्क।र्यः कथं चन। न तस्यार्थप्रयुक्तत्वमस्ति ह्यनभिधानतः ॥ अथ त्रिचतुरा वर्णाः संस्क्रियन्ते पदे पदे । संख्यामात्रस्य साधत्वं तच्च स्यदितरेष्वपि । संस्कियेतानुपूर्वी चेत् शब्दधर्मो न सेव्यते । ग्रहणोच्चारणस्थत्वङ्गाव्यादिषु च संभवान् ॥ यदणेच्चरणे एव संस्कार्यं यदि मन्यसे । कर्मणः कर्मसाध्यत्वमपरिष्टान्निधत्स्यते ॥ व यति हि । कर्तृगुणे तु कर्मासमवायाद्वाक्यभेदः स्यादिति ॥ त।वदिश्रोत्रसंस्कारो न च व्याकरणाद्भवेत्। वैद्योपदिष्टसंस्करसंस्कार्यत्वावधारणम् ॥ मनो व पुरुषो वाथ संस्कारास्पदमिध्यते । शब्दानुशासनं शखमिति व्यर्थं तदा भवेत् ॥ शिष्यानुशासनत्वं हि शशाणम्पपद्यते । शब्दस्याननुशस्यत्वाद्यर्थे तदनुशासनम् । स्फोटशब्दे च संस्कारः सप्तरां नोपपद्यते । असु नौ। तत्र हि यान प्रतिप्रस्थयामपि ॥