पृष्ठम्:तन्त्रवार्तिकम्.djvu/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

के १८ तम्भवातिके । अथ व्याकरणोत्यनै शब्दैर्वेदो ऽपि निर्मितः । ततो व्याकरणस्येव वेदस्याप्यप्रमाणत ॥ शब्दश्चत्पद्यमानत्व प्राणान्न स्यात्क्षणान्तरे। तादृशस्य च संस्कारो न शक्यो नोपयुज्यते ॥ तस्मादनियमं मुदी नित्यः संस्क्रियते यदि। विक्रियायो ऽपि संस्कारस्ततो नैवास्य संभवेत् ॥ विना व्याकरणदान्निः सिद्व श्रोत्रसमाश्रया। अदृष्टयंस्तु संस्कारो विध्यभावान्न गम्यते ॥ दृष्टार्थेषु च शब्देषु नादृष्टेन प्रयोजनम् । न दृष्टं भोजनार्थानां ब्राईहून प्रोक्षणफलम् ॥ कर्मप्रकरणम्नाता न च व्याकरणक्रिया। येनापूर्वप्रयतनां शब्दानां संस्कृतिर्भवेत् ॥ इन्त्यदिविधिवन्नपि संभवी व्याक्रियाविधिः। पैरुषेयं कथं वस्तु विदध्यापकश्चन विधिः । तनानारभ्य वदे ऽपि विधिनैवास्ति तादृशः । अनारभ्य विधित्वे च न कम्मर्थत्वसंभवः ॥ रेकान्तिकं दि संस्कार्यं यत्कृतं । स्यात्स्रवादिवत् । रुद्रेण क्रतुप्राप्तिर्ने लोकव्यभिचारिणः । ले।कवेदतत्व।च्च शब्दान व्यभिचारिता । अतो न व्याक्रिया गछेत्तदुपस्थापितं क्रतुम्। अकशे ऽवस्थिताः शब्दः संस्कर्तुं शक्यते कथम् । नित्यत्वान्नूर्यभाषाच्च व्योमश्रिमविभुत्वयन्। वर्णसंस्कारमात्रं च यदि व्याकरणद् भवेत् । प्रयाशरेण तहिनेतरेण प्रयोजनम् ।