पृष्ठम्:तन्त्रवार्तिकम्.djvu/२१४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१४६ तन्त्रवार्तिके । तेन तद्वचनत्वे हि सन्देह उपजायते । अनिरूपिततत्त्वानां यावदृष्टानसारिणाम् । तचाच नैव संदेहः कर्तव्ये ऽत्र मनागपि । प्रयोगं प्रति तल्यत्वात्सर्वलोकप्रयोगिणाम् ॥ यत्र देश हि यः शब्दो यस्मिन्नर्थे प्रयज्यत शक्तिस्तङ्गोचरा तस्य वाचिकाख्या प्रमीयते ॥ तस्याश् सर्वगामित्वं तन्न्यायत्वाप्रमीयते । नेकेषामेव सा हास्ति केषां चिद्या न विद्यते ज्ञाताज्ञातविभागस्त ज्ञावृभट् ऽवकम्पत तस्माद्येरपि न ज्ञाता यच्छब्दार्थस्य वाच्यता तेरप्यभ्यपगन्तव्या खप्रसिद्धिसमा हि सा न चाल्पत्वबङ्गत्वाभ्यां प्रयोक्तणां विशिष्यते । वाच्यवाचकभावो ऽयमशपादादिशब्दवत् । बिभीतके ऽक्षशब्दो हि यद्यप्यल्पैः प्रयुज्यते । तथा चोक्तं शवतिगतिकमर्मा कस्बोजेष्वेव दृष्टी विकारा पन्नमार्याः प्रयुञ्जते शवमिति मृतशरीराभिधानादित्यादि ब इव एव हि धातवो नामशब्दाच प्रतिदेशमर्थभेदेषु व्यवस्थिता दृश्यन्ते तस्मात्समेयमभिधाने विप्रतिपत्तिः स्यादेवं च विकृतिषु केषां चिदर्थानां साधारणशब्दवाच्यत्वात्प्रकृताविवाविकृतप्र योगादार्षे चोदको ऽनुग्रहीष्यते । तेष्वदर्शनाद्विरोधस्येत्यत्रैव चैतद्दाख्येयम् । इतरत्र विप्रतिपत्त्यविरोधयोरघटमानत्वात्। तस्मादाचारविप्रतिपत्तेः समत्वाद्विकल्प इति प्राप्त ऽभिधीयते।