पृष्ठम्:तन्त्रवार्तिकम्.djvu/२१३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


प्रथमाध्यायस्य तृतीय: पाद: । १४६ शास्रपरिमाणत्वादिति वा परिमिते चार्थे शास्त्रं प्रवक्ता परिमितत्वाद् आचाराणामुच्छास्रत्वमिति । परिमितार्थविषय त्वाद्वा शाखस्य, अप्राप्त शास्त्रमर्थवदिति चरित्राणां यथा चार्थ(१) तुखाङ्गत्वं तथाखिच । तस्माच्छुतिस्मृती एव प्रमाणे धर्मगोचरे। शीलाचारात्मसुष्टीनां गोष्ठीचास्यादितुल्यता । यद्वा सूत्रत्रयेणापि एतदेवाधिकरणं व्याख्यातव्यम् । इद्दा यवर्तनिवासिशिष्टाचारानेवोदाहृत्य पर्ववत्प्रामाण्याप्रामाण्य संदेचे शिष्टाकोपेऽविरुद्वमिति सिद्धान्तस्तावदुपक्रम्यते। तथारि । शिष्टं यावच्छुतिस्मृत्योस्तेन यन्न विरुध्यते । तच्छिष्टाचरणं धमे प्रमाणत्वेन गम्यते । यदि शिष्टस्य कोपः स्याद्विरुध्येत प्रमाणता । तदकोपात्त नाचारप्रमाणत्वं विरुध्यते । समा विप्रतिपत्तिः स्यात् ।। ८।। तेष्वदर्शनाद्विरोधस्येत्येवमुपक्रमं वा सूत्रम् । शब्दार्थविषय प्रयोगशिष्टाचारविप्रतिपत्तौ संदचः ॥ एकशब्दमनेकार्थ शिष्टराचटर्यते यदा । विगानेन तदा तत्र कोर्थः स्यात्पारमार्थिकः । यववराचवेतसशब्दाः प्रियङ्गवायसजम्बूष्वपि किन चापि द (१) यथैवार्थेति पाठान्तरम ।