पृष्ठम्:तन्त्रवार्तिकम्.djvu/२१०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


तन्त्रवार्तिके । न च यो ब्राह्मणः पिबेदित्यनूदित स च पुमानिति विधि व्यापारादिना लिङ्गविवक्षा ऽवकल्पते । न चास्य लिङ्गसंबन्धः केवलः मन्विधीयते । न पानप्रतिषेधाद्वि विधिरन्यत्र गच्छति । सतथोभयत्राप्यविवदिात्तनिङ्गसंख्यत्वं मिडूम । नन्वेवं सति ब्राह्मणखीवधे ऽपि पुंब्राह्मणावधवद्रह्महत्यास्तीति यदात्रेयामे व केवनायां भ्रूणहत्याप्रायश्चित्तविधानं तन्नोपपद्यते ॥ उच्यत ॥ ब्राह्मणाखीवधे को वा ब्रह्महत्यां निषेधति । प्रायश्चित्तान्तरे तस्याः स्त्रीत्वमात्रनिबन्धनम् । न च प्रायश्चित्ताल्पत्वेन निमित्तस्य ब्रह्महत्यात्वमपनीयते पुंवधेऽपि लघतरप्रायश्चित्तविधिटर्शनेन ब्रह्मचत्यादोषाभाव प्रसङ्गात्तस्मान्न वाचनिकप्रायश्चित्ताल्पत्वेन ब्राह्मणीवधप्रतिषेध एव नास्तीत्याशाङ्कितव्यम् । तुरापाने पनः प्रायश्चित्तविशेषो ऽपि न कश्चिदाम्नात इति दूराटपा कृतत्वादस्यवास्य स्मृत्या स च विरोधः। यापि चापस्तम्बस्मृतिवचनात्तुल्यबन्नत्वाशङ्का भवे त् सापि तसाद्राह्मणः सुतुरां न पिबतीत्येतेन प्रत्यशश्रुतिविधि ना निराकतेति नेवंबिधाचारप्रामाण्यमाशङ्कितव्यम् । अथ वा सट्टाचारप्रमाणत्वप्रतिपाटनार्थ स्त्रद्वयेनाप्येतदकमधिकरणं व्याख्यातव्यम् । इद्द यावन्ति कष्णमृगसञ्चरणोपन्नशिताय्य वर्त्तनिवामिचातुर्वएर्याचरणानि तान्युदाहृत्य चिन्यते ॥ धर्मबुद्धा यदाय्र्याणां चरित्रमुपलभ्यते। किं तथेव प्रमाणं तदथ वा निष्प्रमाणकमिति ।