पृष्ठम्:तन्त्रवार्तिकम्.djvu/१५१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


प्रथमाध्यायस्य तृतीयः पादः । एयमपेशितव्यम् । अथ तु प्रयत्नेनान्विष्यमाणेऽपि न विषया न्तरकृता व्यवस्था, नापि प्रमेयान्तराविरोधा(१)त्समुचयो, नापि विकल्पेनोभयानुग्रहः, किं तछूभयपीडनादत्यन्तविरोध एव । स्तदा गत्यन्तराभावादुभयानुयचासम्भवे श्रतिबलीयस्खेन स्ट तिप्रामाण्यमपेक्षणीयं भविष्यतीति । किं तावत्प्राप्नुयादव विरोधेऽपि प्रमाणता। श्रप्रामाण्यप्रसङ्गे हि मयदातिक्रमो भवेत् ॥ श्रनाशाङकितविप्रलम्भधान्यादिमूला ह्यव्याहत (२) वेदमू लत्वावधारणाः स्मृतयो निव्यञ्जप्रामाण्याः शकयन्ते धम्र्मव्यव हाराङ्गत्वेन स्थापयितुम् । यदा तु वेदविरुद्वत्वच्छुतदर्शनपरस्य रविगानादिना कोन विदपि च्छलेनासामप्रामाण्यं कल्प्यते । त दा बङ्गशाखाखिलप्रकरणादिभेदभिन्नेषु वेदेषु श्रुतिलिङ्गाद्या त्मकोपदेशनामादिद्वारातिदशात्मकविचित्रप्रमाणभागेषु को जानाति का स्मृतिः कीदृशेन वेटंभागेन विरुद्धद्यमाना कदा नुमास्यतइति । अतश्चैवंजाताशङ्कैन्नेव क चिदपि विश्वस्त । अविश्वासाचात्यन्तमेव प्रामाण्यं प्रतिच्छ्न्येत । तथा छि ॥ कदाचिचुक्रुतिमूलत्वमुवा भ्रान्त्यादिमूलता । स्मृतिभिः प्रतिपन्ना चेत्कस्तामिन्द्रो ऽपि वारयेत् ॥ एकमूलव्यवस्थायां मूलान्तरनिराक्रिया। अप्रामाण्यनिवृत्यर्थे शक्या न तदुपेक्षणे ॥ (१) प्रमेयाविरोधादिति पाठः पुस्तकान्तरे । (२) अङ्गीकृतेति पाठान्तरम् ।