पृष्ठम्:तन्त्रवार्तिकम्.djvu/१४४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


तन्त्रवार्तिके । दृढस्मरणान्यथान्पपत्तिलभ्यत्वाच्छ्त्यनमानस्य । यदा विद्यमा नशाखागतश्रुतिमूनत्वमेवास्तु । कथमनुपलब्धिरिति चेदुच्यते । शाखानां विप्रकीर्णत्वात्परुषाणां प्रमादतः । नानाप्रकरणम्यत्वात् स्मृतमूलं न दृश्यते ॥ यत्तु किमर्थ वेदवाक्यान्येव नोपसंगृहीतानीति । संप्रदायवि नाशभोः। विशिष्टानुपूव्र्याव्यवस्थितो हि खाध्यायो ऽध्येतव्यः श्रूयते । सुमात्तश्चाचाराः के चित् च चिकस्यां चिच्छाखायाम् । तत्रापि तु के चित्पुरुषमेवाधिकृत्यानायन्ते । यन क्रतुप्रकर णाम्नाताः केन चिन्निमित्तेनोत्कृष्यमाणाः परुषधर्मतां भज रोदित्येवमादयः। तत्र यदि तावत्तान्येव वाक्यान्युडूत्वाध्याप येयुस्ततः क्रमान्यत्वात्खाध्यायविधिविरोधः स्यात् । अनेन च निर्देशेन अन्ये ऽप्यर्थवादोद्वारेण विधिमात्रमधीयोरन् कर्म सर्वशाखाध्यायिनः । ते हि प्रयत्रेन शाखान्तराध्यायिभ्यः श्र त्वार्थमात्रं खवाकरविस्मरणार्थे निबधीयुः। न च वाक्यविशेषो ज्ञायते । यथेव हि स्मृतेर्टढत्वाङ्कान्तिमूनत्वं नास्यवमर्थवादम् लत्वमपि । शाकुवन्ति हि ते विध्यर्थवादौ विवक्तुम्। तत्र स्मृ ते (१) र्विधात्मकत्वात्प्रकृतिादात्स्यानुमानलब्धास्पद ऽर्थ वादपूर्वकत्वं निष्प्रमाणकम् । अपि च । वेदो ऽखिलो धर्ममूलं सर्वे ऽभिहितो वेद इति च खयमेव स्मर्तृभिरात्मा बध्वास मर्पितस्तचैतन्नियोगतसंतत्कालैः कर्तभिर्बुद्विकारित्वादुपलब्ध मतः सिद्धं वेदारं प्रामाण्यम् । यस्तु कर्तृसामान्यात् खत (१) तत्र विध्यात्मकत्वादित्यादि पाठः पुस्तकान्तरे ।