पृष्ठम्:तन्त्रवार्तिकम्.djvu/१४३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


प्रथमाध्यायस्य ततीय: पाद । विप्रलम्भे ऽपि तत्कल्पना । विप्रलिसाप्रयोजनं लोकस्य च तच भ्रान्तिस्तस्यायन्तं काल्नुमनवृत्तिरित्याद्याश्रयणीयम । उत्प नस्य च दृढस्य प्रत्ययस्य प्रामाण्यनिराकरणाद् दृष्टविरोधः । तस्मात्सर्वेभ्यश्चोदना कल्पनैव ज्यायसी । तत्र हि तन्मात्राट् ष्टाभ्यपगमः । शेषास्तु महाजनपरिग्रहादयः सर्वे ऽनविधीय न्ते । संभाव्यते च मन्वादीनां चोदनापर्वविज्ञानकारणत्वेन । पुनरनुपपन्नवेदसंभावनानां म्लेच्छादीनामतीन्द्रियार्थस्मरणानि तषां मूलकल्पनावेलायामेव चीटना संभावनापदं नारुढेति मिथ्यात्वक्तुमून्नचतुष्टयपारिशेष्याटप्रमाणत्वम् । संभावितायां पुनश्टनायां कारणान्तरनिषेधे कृते निम्न्नत्वासंभवात्यरि शेषसिद्द चोदनामूलत्वम् । यत्तु किमर्थं चोदना नोपलभ्यन्त इति । तत्र के चिदाङ्गः । नित्यानुमेयास्ता न कदा चिदुचा यन्ते । यथालिङ्गादिकल्पिताः । कथमनुचरितानां मूलत्वोप पत्तिरिति वत् । नैष दोष । पाठाविच्छेदवत्यारम्ययेण स्मर एणात्तसिद्धेः यथैव हि ग्रन्थः संप्रदायाढविच्छिन्नेो ऽस्तित्वं भजते तथैव प्रतिज्ञयानित्यानुमेयश्रुतिसंप्रदायाविच्छेदसिद्धिः । सत्त्व युक्तम् । अन्धपरम्परान्यायादेव । या हि चोदना न कदाचि दुच्चार्यते तस्याः सर्वधरुषप्रत्यादिप्रसराभावाद्दर्लभतरमस्ति त्वम्। तथा च स्मृतेरपि सैव वन्ध्यादैौच्चितुल्यता । लिङ्गादी नां तु नित्यत्वान्नित्यमनुचरितश्रुत्यनुमानकारणत्वमविरुद्धम् । तेन वरं प्रखीनश्रुत्यनुमानमेव । न चं प्रलयो न संभाव्यते । द्वश्यते हि प्रमादाखस्यादिभिः पुरुषश्याचाल्पविषयत्वम् । न चैव सति यत्किं चितप्रमाणमापत्स्यते । शिष्टचैवर्णिक