पृष्ठम्:तन्त्रवार्तिकम्.djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४७
प्रथमाध्यायस्य द्वितीय: पाद ।


शर्वर्तमानतामन्नक्रियायामेवोपचर्य स्तौति । तत्रापि जनानां
शतयतिक्रमेणाभिव्यक्तिप्रियत्वाक्रियतइत्युक्त स्तुतिर्भवति । न।
शतयभिधानात्। तव तु विधिवादित्वान्मुख्यान्नकरणत्ववर्त्तमान
त्वयोरग्रहणे दोषः । किं कारणम् । विधानं ह्यत्यन्तानवगतार्थ
विषयम्। तत्र यथाश्रुतादन्यथाग्रहणं निष्प्रमाणकम् । एतदेवा
इं। विधैौ हि न परशब्दार्थः प्रयोजनमिति परशब्दार्थ हि लक्ष
णासु प्रयोजनम्। तदिह भूतभविष्यक्रियावाचिनः शक्तिवर्त्तमा
नतावाचिना वा खाये वर्त्तमानान्नक्रियावाची शब्दः कल्पनीयः।
तन्निमित्तमात्रे शब्दार्थे माधकतमत्ववाचिनी वतीया । न चैवं
भूतत्वं कुतवित्सिङ्कमित्यप्रमाणाकम । अथ मुख्यार्थपरिग्रहः ।
तत्रोच्यते । न च वर्त्तमानं साधकतमं वोपटिशान्चेदः शक्यमर्थ
विदधान्। न हि वर्त्तमानान्नक्रियेण शूर्यादिना साधकतमेन वा
पाकेन होतुं शक्यते । तस्मादुभयथापि विप्रतिषिद्वम् । अस्मत्प
क्षे त्वनुवादत्वात्परशब्दार्थयहणम । यथा लोके बलुवान्देवदत्त
इति भूम्न्यतिशायने वा मतुप्प्रवृत्तिर्न च विशेष उपात्तोऽमुः
यात्प्रकृष्टबल इति । तत्र सर्वसत्त्वेभ्यः प्रकर्षे मुख्यः शब्दः न च
,
तथा सम्भवति सिंहादीनां बलवत्तरत्वादिति देवदत्तान्नतर
बलानपेच्चैवमभिधीयते तथात्र विप्रकष्टतरान्नसाधनलाङ्गला
द्यपेशया शूर्प साधकतममित्युच्यते । नन्वेवमापेक्षिकप्रवृत्तेमु
ख्यत्वमेव स्यात् तथा च देवदत्ते बलवच्छब्दप्रवृत्तिं नैव गौणीं
मन्यत । सत्यमवं यदा तावन्नमात्रापेशयैव प्रयुज्यत यदा त्व
विशेषप्रवृत्तेस्तदधिकबलेष्वपि बन्नुवद्युद्विजता तदा स एव शु
ब्दः कुतषिदपि न्यूनबले वर्तमाने गौणः सम्पद्यते । तथा यदि
विधुद्देशोपात्ते शूर्णे ऽन्नकरणत्वमनूद्यते ततस्तन्यूनमात्रापेष्ठ