पृष्ठम्:तन्त्रवार्तिकम्.djvu/११४७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१७८१ तृतीयाध्यायस्य षष्ठः पादः। क्रत्वर्थाश्रयो यस्य स्यार्थस्य न लभ्यते । पूर्वाधिकरणन्यायस्तस्मान्नैमित्तिकेष्वपि ॥ इति प्राप्तउच्यते । नैमित्तिकं तु प्रकृतो वत्तते नित्यबाधया । हेतवो न वयः पूर्वा व्याख्याता एव सम्मतः॥ असंयोगादवधेन संयोगो ऽस्य विशिष्यते । पुनः की विशिष्टस्य प्रयोगस्यं परिग्रहात् ॥ साक्षाच्च पुरुषार्थत्वादनन्याश्रयगामिनः । एवं सिद्धे बलीयस्त्वे निवेशः प्रकृते स्थितः ॥ न त्वतुल्यार्थयोर्वाधः क्रत्वर्थपुरुषर्ययोः । न युक्त न विरोधो ऽस्ति भिन्नगोचरयोस्तयोः॥ अतश्च पुरुषार्थत्वात्ऽथक् प्रगणयनक्रिया । प्राप्नोति चमसेनैव क्रत्वपूर्वस्य साधनात् ॥ न साधयति पश्वादीन् क्रत्वर्थश्चमसो यथा। गोदोहनं तथा ऽन्यार्थं न क्रत्वर्थस्य साधनम् ॥ न चोभयार्थता तस्य वाक्यभेदप्रसञ्जनात् । विधिर्नास्त्येकवयत्वे फलप्रणयने प्रति ॥ अन्या हि वचनव्यक्तिः फलोद्देशेन तद्विधौ । अन्या प्रणयनोद्देशे तस्मान्न वयसंभवः ॥ प्रसन्नसंभवे चेष्टा विप्रकृष्टेन संगतिः । युगपत्तेन न स्यातां संभवासंभवावुभौ ॥ अतः कमिपदाक्षेपान्नस्य प्रणयने विधिः । अविधानादशेषत्वान्न 'शेषान्तरबाधनम् ॥ अबाधचमसो ऽवश्यं कर्तव्यश्च क्रतुं प्रति । न चान्यस्यावकाशो ऽस्ति क्रत्वर्थे ऽन्येन साधिते ॥ तेन प्रणयनाभ्यासः कार्यः कार्यगुणं प्रति । ११