पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


३९
प्रथमाध्यायस्य द्वितीय: पाद ।


प्रवृत्तिविशेषनिमित्तत्वेनाश्रीयते । न च क्षीरादयः फलविधय
प्रत्यक्षविषयत्वादतः स्तुतिः। एवं वेदपि। श्रुत्यसंभवाच लक्षणा
परिग्रह इत्यदोषः ।।

न पूवत्वात् ।। २९ ।।

नायं दृष्टान्तः स्तुतेः प्रमाणान्तरावगत्यपेक्षत्वाङ्गीक तत्संभवा
दुपपत्तिः । वेदे त्वविदितवादत्वान्न श्रद्दधीरन् । अथ वा लोक
एव यद्यविदितं कश्चिद्ददत्तदा नैव श्रद्दधीरन। पर्ववचनादिवेति
विध्युद्देशादि वा। अथ वा वैधम्र्यपमा। यथाधिगतपूर्ववचने श्रद्द
धन्त नेवमविदितवाद। न चोक्तिमात्रेणेते बङ्गशीरादयः प्ररोच
यन्ते किं तर्हि विदितत्वादेव । वेद त्वर्थवादासत्यत्वेन विधेो जा
ताशाङ्को न प्रवर्त्तत । अथ वा यो विधिमुत्क्रम्यार्थवादं प्रार्थयते
नूनमस्य विधावविश्रमः । तत्र चेदनायामो ऽर्थवादे कुतः प्रत्यय
इति । अपि च वेद व्यक्तमसंवादो वर्तमानेनीजेवरोधनेनेयं
स्तुतिर्न च तदस्ति। तत्राविद्यमानवङ्गक्षीरसङ्कीर्त्तनवदेतत्स्यात्।
खरुपतस्तावदुम्बरो ऽन्नत्वं पश्यधर्मेणाप्रसिद्धं अन्चयाप्रसिद्देश्य
हेतुत्वाप्रसिद्विः । न हि यद्यदत्रं स स यूप इति लोके वेद वा
प्रसिद्धमित्यसम्बद्धं तस्मादसंवादादरं विधिरेव किं स्तुत्या सं
वादापेक्षिण्येति ॥

उक्तं तु वाक्यशेषत्वम् ॥ २२ ॥

उऊर्जुदुम्बरइत्यादि तावदूर्जवरुद्धा इत्यस्योपपत्तियैकवा
क्यभूतं न विच्छिन्नं तावकम्। न ह्यन्नमुंदुम्बर इत्युक्त पुरुषं प्रति
प्रशस्ता गम्यते । ऊर्जेवरुद्धा इति तु प्ररोचयति । तदुपपत्ति
रितरेति सङ्गच्छते । तस्मात्कृत्खेन फखं प्ररोचना वा। तत्र यद्य