पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


३५
प्रथमाध्यायस्य द्वितीय: पाद ।


स्तुतित्वम् । ऊर्जी ऽवरुध्या इति पुनर्यथा फन्नविधित्वात्प्रच्याव्य
ते तथैव विसंवादन स्तुतित्वादपोति कामं विधिर्भवतु येन का
लान्तरभावित्वेन कथं चिद्विसंवादो निवर्त्ततइत्यारम्भः । तद
रुक्तः स्यात् । अधिकरणशरीरं तु तदेव । विसंवादो ऽपि च
गणावाटस्वित्यनेन न कविटपरिहृतः । पुनरपि च तावन्मात्रमे
वेोत्तरं भविष्यति । तस्माद्विधिर्वा स्याटित्यविशेषोपाटानाचतथे
च फलश्रुतियहणादिचाशेषद्रव्यगुणक्रियादिविधिसरूपास्तत्र
फन्नविधिस्मरुपा एवोदाहरणमित्यपरे। तथा च विधिश्चानर्थक
क चित्प्रकरणे च सम्भवन्निति चासुयोनिर्वा अश्वो ऽसुजो वे
तसो यो विदग्ध इति चोदाह्रियते । अन्यथा फल्नविधिमाबी
पन्यासे तदसंबङ्कमेव स्यात् । इद्दापि तस्य तावद्विशेषविषयत्वा
दिदमगतार्थ भवेत्। अनेन तु सामान्यतः सर्वविषयावरोधिना
तत्पुनरुक्तमवति व्यवस्या के चिदुदाहरन्ति । अत्र द्रव्यादि
विधीनेव तत्र फन्नुविधीनेव भाष्यकारोदाहरणमतन्त्रीकृत्योदा
चरणान्तरं दातव्यमिति । अत्र वदामः । किमधिकरणद्वयमव
श्यारब्धव्यं येनैवमुदाहरणव्यवस्थाश्रीयते न द्युदाहरणभेदा
दधिकरणं भिद्यते। मा भूद्यथाव्यवस्थिते ऽपि खादिरोदुम्बरत्व
भदादपानरुतयम् । न्यायविषयत्वन त्वधिकरणाना तङ्गद एवा
पैौनरुक्तये तुः। द्रव्यादिविधयोऽपि न सर्वे विचारिताः। केचि
तसिद्विसूत्रे । क चित्रिवीताद्यधिकरणेषु । परकृतिपुराकल्प
छारेणान्ये षष्ठ। यदृचा स्तुवतइत्यादयो ऽर्थकत्वाद्विकल्प इति
नवमे । ज़र्त्तिल(१)गवीधुकविधिसरूपा दशमे। अतस्य न पुनरु


(१) वन्यातिल ।