पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नेनार्थापया वा वक्ता पूर्वंतरसङ्कल्पितां क्रियां प्र- तिपद्यते । अन्यथाहीतरेतराश्रयत्वं स्यात् । कुतः । क्रियया कारकं गम्यं कारकण क्रियां तथा । एकस्यायनपेक्षत्वे न मृलमवधीरितम् ॥ वयोः संबन्धिनोरवश्यमेकस्येतरनिरपिलं प्रतीतिमूल मभ्युपगन्तव्यम् । तदिह यदि क्रियागस्यं कारकं ततः । क्रिया केन प्रत्याय्यतदूति वक्त यम | न च तावदृक्ष प्रातिपदिकं क्रियाया वचकं शाखदिमज्जातिमत्र वचनत्वत् । नापि प्रातिपदिकार्थे गमको विना अपि क्रिययोपपत्तेः । यथोच्येत न जातु चित्कश्चिन्निष्क्रियः सं भवत्यतो ऽस्ति तिष्ठत्यादिका का चिदेकान्तेनक्षिप्ता क्रि या भविष्यति । अथ व इस्तिर्भवन्तीपरः प्रथमपुरुषो प्रयु ज्यमानो ऽप्यस्तीति गम्यतइत्येवं सक्रियत्वकारकापेक्षः सेत्स्यतोtfत । तदनुपपन्नम् । कुतः । तिष्ठत्यादावुपात्ते ऽपि क्रियामा ह्यकर्मके । कर्तुमात्रमुपात्तं स्यान्न कर्मादि नियोगतः ॥ सामान्येन ह्यचस्यादिक्रिया का चित्प्रातिपदिकार्थेन क्षिष्येत न चासौ सर्वकारकाक्षेप समर्येति । कर्मादीना मन्यमापकं मृग्यं न च विभक्तिः क्रियां ब्रवीति यया कर्माक्षिप्येत । न च संख्या क्रियाकारकविशेषाक्षेपस मथेति उक्तम् । अतो न कारकप्रतीतिं सुवा ऽन्यक्रि यायाः प्रत्ययकमस्ति । तव यदि कारकस्यापि क्रिया प्रत्ययिकष्यते ततः स्फुटतरमितरेतराश्रयेणोभयोरपि निमूलवम।पद्यते । तस्मादिहनन्यगतिकत्वत्कारकं वि भक्तिव।च्यं तत्संबधीच्च तदनुरूपक्रियाक्षेप इति वक्त व्यम् । यदा तर्हि क्रियापदपूर्वकं कारकपदं प्रयुज्यते । २२१